________________
३११
अपराजितपृच्छा ऊर्च कर्णश्च तन्मानः पादोना स्कन्धचिप्पिका। रूपाणि पश्चभागानि द्विभागैर्निगमैः सह ॥ १५॥ जायकुम्भं च कर्णाली - - - चिप्पिका समा। कपोतालीसमसूत्रे कर्णकः पूर्वनिर्गमः ॥ १६ ॥ जाडयकुम्भस्कन्धसूत्रे कुर्याद मासस्य पट्टिकाम् । ग्रासपट्टीप्रवेशात्तु विभागं गजपीठकम् ॥ १७ ॥ ऊर्ध्वकणे कपोताली वाजिपीठं द्विभागिकम् । तस्योर्चे च कपोताली अधीशं नरपीठकम् ॥ १८ ॥ नरपीठप्रवेशात्तु खुरकं सार्धभागिकम् । प्रवेशनिर्गमावेवं कथितौ च शुभप्रदौ ॥ १९ ॥ जाडयकुम्भः पञ्चभागः कर्णाली चाष्टभागिका । गजपीठं चतुर्भागं त्रिभागं वाजिपीठकम् ॥ २०॥ नरपीठं द्विभागं च कर्तव्यं शुभलक्षणम् । खुरकाज्जाड्यकुम्भान्तं द्वाविंशद् भागनिर्गतम् ॥ २१ ॥ त्रिपञ्चांशं समुत्सेधं द्वाविंशतिविनिर्गतम् । पीठमानमतो दृष्टं कथितं स्वपराजित ॥ २२ ॥ ईदृशं कुरुते यस्तु स सर्वफलमश्नुते ।
अज्ञानात् कुरुते यस्तु शिल्पदोषो महान् भवेत् ॥ २३ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां नागरप्रासादपीठलक्षणाधिकारो नाम चतुर्विशत्युत्तरशततम सूत्रम् ।।