________________
(१२५) प्रासादज्ञातिच्छन्दपीठलक्षणं पञ्चविंशत्युन्तरशततमं सत्रम्॥
विश्वकोवाच
द्राविडे पीठकोत्सेधं द्वाविंशत्या विभाजयेत् । वेदीबन्धत्रयं कुर्यादूर्ध्वतः सुरमस्तकात् ॥ १॥ त्रिपदो जाडयकुम्भस्तु द्विपदः कर्णकस्तथा। पदं चान्तरपत्रं च द्विपदा चोर्ध्ववेदिका ॥२॥ पदार्थमन्त:पत्रं च द्विपदो जाडयकुम्भकः । सार्धं चान्तरपत्रं च द्विपदोन्वें च वेदिका ॥३॥ अर्धपञ्चमपदाख्या ? तृतीयं वेदिवन्धनम् । पदार्धमन्तपत्रं च खुरकं च पदद्वयम् ॥ ४॥ कुमुदं पदमुत्सेधे तस्यैवोचे तत: पदम् । पदं चान्तरपत्रं च कर्णपाली च तत्समा ॥५॥ तत्समं तलकुमं च तत्समं च प्रचक्षते ?। प्रथमं वेदिबन्धानां निर्गतं पदपञ्चकम् ॥ ६ ॥ द्वितीयं सार्धवेदांशैस्तृतीयं च पदत्रयम् । खुरकं च पदं सार्धत्रयोदशविनिर्गमे ॥ ७ ॥ जाउयकुम्भस्य कर्णो मकरास्य महोत्कटम् । तदुच्छ्यः प्रकर्तव्यो यावद् वेधाश्च मस्तकम् ॥ ८॥ द्वित्रिचतुरङ्गलानामन्तरेण पुनः पुनः । न कारयेनकहीनां नासिकोपाङ्गफालनाम् ॥ ९ ॥ कोटपालैर्युतं पूर्व द्वितीयं भैरवान्वितम् । तृतीयं कण्टकयुतं पीठं कुर्वीत कोविदः । पदप्रवेशं कुमुदं सुलीनं घण्टुमीदृशम् ? ॥ १०॥ पादे च पादयन्धाख्यं खुरकं स्थापयेत्तथा । श्रीबन्धस्त्वेकसंघाटस्तद्वया वेदिबन्धनम् ॥ ११ ॥ प्रतिक्रमस्त्रिभिः प्रोक्तः चतुर्भिः खुरबन्धनम् । एते पञ्चविधा भेदा द्राविडे पीठसंशकाः ॥ १२ ॥
इति द्राविडपीठलक्षणम् ॥ प्रासादे दशधा भक्ते पीठं सार्धाशमुच्छ्तिम् । . निर्गतं चैकभागेन विभंजायनवोलुटम् ! ॥ १३॥ नरपीठं पदं विद्याद भूमिजे पाठकोच्छ्यम् । निर्गतं च त्रिभागेन कर्तव्यं सर्वकामदम् ॥ १४ ॥