________________
(१२४) नागरप्रासादपीठलक्षणकं चतुर्विशत्युत्तरशततमं सूत्रम्
विश्वकर्मोवाच
पीठोच्छ्यं तथा मानं विभक्तं भागसङ्ख्या। पंचांशं समुत्सेधं द्वाविंशतिविनिर्गतम् ॥१॥ जाड्यकुम्भे ततो वक्ष्ये भागैर्नवभिरुच्छ्तिम् । कर्ण कुर्यात्सार्धभागमधमन्तरपत्रिकाम् ॥२॥ सार्धाष्टांश निर्गतं च सार्धद्वयंशां तु चिप्पिकाम् । स्कन्धं च सार्धपञ्चांशं सार्धभागां तु चिप्पिकाम् ॥३॥ कर्णालिः केन्द्रभागैश्च भागार्धाऽन्तरपत्रिका । सार्धद्वयं कर्णकं च भागेका चिप्पिका मता ॥ ४ ॥ द्विभागेऽन्तरपट्ट द्वे पदिके भागमध्यतः। कर्णस्तथैकभागश्च भागः स्कन्धः सपट्टिकः ॥५॥ सार्धाध्यंशा ग्रासपट्टी भागं निर्वाणचिदिपका। उच्छ्यः कथितश्चैवं निर्गमं शृणु साम्प्रतम् ॥ ६॥ सार्धद्वयंशा कपोताली साध कर्णकमेव च । द्विभागा चिप्पिका शेया निर्गमश्चाष्टभागिकः ॥ ७ ॥ सूर्याशेर्गजपीठं वार्धभागान्तरपत्रिका । कुर्यात्कर्ण चैकमार्ग भागं स्कन्धं सपट्टिकम् ॥ ८॥ कोवे तु गजा: कार्याः सार्धाष्टांशसमुच्छ्तिाः । ऊर्चे कर्णस्ततो भागस्त्रिभागं स्कन्धपट्टकम् ॥ ९ ॥ द्विभागा च कपोताली क्षोभणा चार्धभागिका। द्विभागा चिप्पिका चैवं चतुर्भागैश्च निर्गमः ॥ १० ॥ दशभागं वाजिपीटं भागेऽर्धेऽन्तरपत्रिका। पादोनभागकर्णश्च पादोनः स्कन्ध एव च ॥ ११ ॥ वाजिमान सप्तभाग कर्णान्तरसमुन्नतौ । पादोन ऊर्ध्वकर्णश्च पादोना स्कन्धचिप्पिका ॥ १२॥ द्विभागा व कपोताली क्षोभणा भागनिर्गमा । द्विभागा चिप्पिका चैव ---- निर्गमैः सह ॥ १३ ॥ नरपीठं ततो वक्ष्ये अष्टभागसमुन्नतम् । अन्त:पत्रं च पादानं कर्णः पादोन एव च ॥ १४ ॥