________________
(१२३) प्रासादपीठोदयमानं त्रयोविंशत्युत्तरशततमं सूत्रम् ।।
विश्वकर्मोवाच--
एकहस्ते तु प्रासादे त्रयस्त्रिंशद्भिरङ्गुलैः । द्विहस्ते तु प्रकर्तव्यः पञ्चपञ्चाशदङ्गुलैः ॥ १ ।। सप्तसप्तत्यङ्ग्लैश्च प्रासादे तु त्रिहस्तके । चतुर्हस्ते तु प्रासादे एकोनशतसङ्ख्यकैः ॥ २॥ प्रासादे पञ्चहस्ते सैकविंशतिशताङ्गलैः । पञ्चहस्तान्ततो वृद्धिर्हस्व कुत्तदूर्ध्वतः ॥ ३ ॥ पञ्चहस्तादुर्वतश्च यावत्स्यानवहस्तकम् । हस्वं हस्तार्धभागेन पञ्चोर्ध्वं च नवान्तकम् ॥ ४ ॥ तवें त्रयोदशान्तं पादभागं परित्यजेत् । अष्टमांशं ततो ह्रस्वं यावदिशतिहस्तकम् ॥५॥ ततो द्वात्रिंशदशं च ह्रस्वं यावच्छतार्धकम् । प्रहरान्तं कुम्भकादेरुच्छ्यो नागरे मतः ॥ ६॥ विभक्त चैकविंशत्या भागेन स्यात्तदुच्छ्यः ।। पीठानि पञ्च पश्चादेनेवान्तं भागवृद्धितः ॥७॥ लतिने वाऽथ सान्धारे नागरे मिश्रकेऽपि वा । विमानेऽपि समाख्यातः पीठमानसमुच्छ्यः ॥ ८ ॥ पृथुप्रासादाधोदये द्राविडे.पीठकोच्छ्यः । तदूचे तु भवेद्रेखा द्राविडे कर्मचर्चिता ॥९॥ कुम्भकादेः क्षितेरन्ते भूमिजे वै पृथूदयः। क्षितिशङ्गोत्सेधमाने पीठमधे प्रकल्पयेत् ॥ १० ॥ वराटे वै विंशतिधा क्षितेरन्ततउच्छ्यः । ऋतुभागं भवेत्पीठमधः सप्तभिरुनतम् ॥ ११ ॥ पीठोच्छ्यप्रभेदास्तु कथिताश्च शुभप्रदाः। इष्टमेषामुत: कामं कर्तृकप्रवरावुभौ ॥ १२॥
इति पीठोच्छ्यप्रभेदाः॥ प्रासादपादमानं च शात्वा चैव विचक्षणः । षोडशाङ्गुलमानेन कर्तव्यास्तु दृढाः समाः ॥ १३ ।। प्रासादच्छन्दमस्योचे दृढखरशिलोत्तमा । एकहस्ते पादहस्तः पञ्चान्तेऽङ्गुलवृद्धितः ॥ १४ ॥