________________
३०६
अपराजिनपृच्छा तत्रैव तेन मानेन तत्समं च तुलोदयम् । तथा तुलोदये भूमिर्घटकादि ततःसमम् ॥ १६ ॥ तत्समं तु प्रकर्तव्यमुत्तमाङ्ग सपट्टकम् । उदयोनतमानेन सोपानं तुलमध्यतः ॥ १७ ।। अनुला (1) बाह्यतश्चर्व सौपानं च विदुर्बुधाः । कुम्भी स्तम्भशिरः पट्टे पृथक् सूत्रात्तुलादिकम् ॥ १८ ॥ युक्ता न्यस्ताः समा कुम्भी स्तम्भोदुम्बरशिर्षिकाः । भूमिं तु भूमिमानेन समसृरैर्विचक्षणाः ॥ १९ ॥ मूलपीठसमसूत्रे आदिभूमेस्तु मस्तकम् । ऊर्च पट्टानुक्रमेण कर्तव्यो भूमिकाक्रमः ॥ २० ।। उदुम्बरशिरोभूमिर्जलाधारे प्रशस्यते । बलानकस्तत्तदने तोरणं भद्रमस्तके ।। २१ ॥ तवाद्ये मत्तावरणं द्वाराणि वामदक्षिणे । सन्मुखानि त्रीणि शेषं मत्तावरणके तथा ॥ २२ ॥ शिवसूर्यो ब्रह्मविष्णू चण्डिका जिन एव च । एतेषां च सुराणां च कुर्यादने बलानकम् ॥ २३ ॥ विमानस्तुङ्गनामा च राजवेश्माग्रतः शुभः। हर्यशालो गृहे वापि कर्तव्यो गोपुराकृतिः ॥ २४ ॥ पुष्करो वारिमध्यस्थो वामनो देवताग्रतः । इषुभेदा वामनाद्याः कर्तव्यास्तु बलानकाः ॥ २५ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपुच्छाय
बलाणकलक्षणाधिकारो नाम द्वाविंशत्युत्तरशततमं सूत्रम् ॥