________________
(१२२) बलाणकलक्षणं वाविंशत्युत्तरशततमं सत्रम् ॥
-
-
विश्वकर्मोवाच
अथातः सम्प्रवक्ष्यामि बलानकसुलक्षणम् । विस्तीर्ण जगतीपादे पदपादविवर्जितम् ॥ १ ॥ प्रासादव्यासमानेन गर्भमानेन चाऽथवा । शालालिन्दप्रमाणेन त्रिविधं मामलक्षणम् ॥ २॥ कनिष्ठे चोत्तमं कार्यमुत्तमे च कनिष्ठकम् । मध्यमे मध्यम कार्यमेतन्मानं च शोभनम् ॥ ३॥ अन्यञ्च युक्तिभेदैश्च पुरतः पृष्ठतोऽपिवा। अनेकैरर्थभेदैश्च कथयाम्यपराजित ॥ ४ ॥ वामनश्च विमानश्च हर्म्यशालश्च पुष्करः। तथा चोत्तुङ्गनामा च पश्चैते च पलानका ॥५॥ वर्तनं कथयिष्यामि पदसंस्थानमानतः। प्रासादाने च प्राकारे मन्दिरे वारिमध्यतः ॥६॥ वामनं जगतीग्रस्तं विमानं तु तदाश्रितम् । हर्यशालं गृहे वाऽपि प्रासादे नगरानसे ॥७॥ पुष्करं वारिमध्यस्थमग्रतचैव भूषितम् । सप्तभूमं नवभूममतऊर्धन कारयेत् ॥ ८ ॥ प्रासादाने-जं कुर्याज्जगतीमुखमण्डनम् । लक्षणं तस्य वक्ष्यामि स्थानमानं च भूमिकाम् ॥९॥ एकद्वित्रिचतुःपञ्चपट्सप्ताष्टभिरेव च। स्थानं तस्य-सेवोक्तं ? कर्तव्यं तदनन्तरम् ।। १०॥ प्रासादादिक्रमद्वारं मण्डपान्ते निवेशयेत् । तत्क्रमेण प्रकर्तव्यं द्वारं तस्य बलानके ॥ ११ ॥ हस्तेऽङ्गुला भवेद् वृद्धिरगुलं हस्तमानतः । कर्तव्यं पूर्वमानेन हीने हीनं समे समम् ॥ १२ ॥ जगती तु शिरोदेशे जठरं चोत्तमाङ्गजे?।। जगत्युदयतो द्वारं कर्तव्यं तु बलानके ॥ १३ ॥ द्वारं चैतेन मानेन प्रकुर्याच्च बलानके। परापरविभागेन हीनं वा अधिकं यदि ॥१४॥ तवारं दोषदं प्रोक्तमेकमानेन कामदम् । पुरतः पृष्ठतो द्वारं यथा सौभाग्यतं न्यसेत् ॥ १५ ॥