SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ३०४ अपराजितपृच्छा जलशायी तथा प्रोक्तो दशावतारसंयुतः । शुकरस्त्वग्रतः स्थाप्यः सर्वदेवमयः शुभः ॥ १४ ॥ शेषकूर्मसमायुक्तो लक्ष्मीः वामपार्श्वतः । विष्ण्वायतनमित्येवं कथितं स्वपराजित ॥ १५॥ इति विष्ण्वायतनक्रमः॥ आग्नेय्यां तु कुजः स्थाप्यो गुरुाम्ये प्रतिष्ठितः। नैर्ऋत्ये राहुसंस्थानं पश्चिमे चैव भार्गवः ॥ १६ ॥ वायव्ये केतुसंस्थानं सौम्यायां बुध एव च । ईशाने च शनि दद्यात् प्राच्यां चैव तु चन्द्रमाः ।। १७ ॥ इति सूर्यायतनक्रमः ।। गौर्याया: सम्प्रवक्ष्यामि देवतानामनुक्रमम् । दक्षे मातृः श्रिया सौम्ये सावित्री पश्चिमे विदुः ॥ १८ ॥ द्वे पृष्ठकर्णयोश्चैव भगवती सरस्वती । गणेशं च कुमार च त्वीशान चाग्निगोचरे ।। १९ ॥ कुण्डलाभ्यामलङ्कृत्वा सर्वाभरणभूषिता। मध्ये देवी प्रतिष्ठाप्या महेशस्य सदा प्रिया ।। २० ॥ इति गौर्यायतनक्रमः ॥ जिनालयं प्रवक्ष्यामि जिनेन्द्रभवनं तथा। आश्रयन्ति ततो दिव्या जिनशासनपारगाः ॥ २१ ॥ जिनेन्द्रस्य तथा यक्षा देव्यश्च जिनमातृकाः । तीर्थकराणां सर्वेषामतीतानामवर्तिनाम् ॥ २२॥ केवल्यषभदेवाद्या; पद्मनाभादितः क्रमात् । पृथक् चतुर्विशतिर्वै जिनानां वा द्वासप्ततिः ॥ २३ ॥ इति सूत्रस तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छाया मायतनदेवानुक्रमनिर्णयाधिकारो नामै झविंशत्युत्तरशततमं सूत्रम ।।
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy