________________
अपराजितपृच्छा अर्धाङ्गलं तदूचे तु नवान्तं सुदृढोत्तमा । पादवृद्धिं पुनर्दद्याद् हस्ते हस्ते तथा पुनः ॥ १५॥ हस्तानां विंशतिर्यावदर्धपादा तदूर्ध्वतः। विंशत्यङ्गलपिण्डा च शताधे तु खरा शिला ॥ १६ ॥ प्रासादच्छन्दमाकारैर्विविधैर्दलनिर्गमैः। इष्टकारज्जुसम्युक्तास्तलतो ये च पृष्ठतः ॥ १७ ॥ शिलास्ताश्चैव तीक्ष्णाग्राः स्पर्शयेतु प्रयत्नतः। सुदृढाः समताढ्याश्च सूत्रपातं तदूर्धतः ॥ १८ ॥ एकहस्ते तु प्रासादे मिट्ट वेदाङ्गुलं स्मृतम् । एकतः पञ्चहस्तान्तं हस्ते चैकैकमङ्गुलम् ॥ १९ ॥ पञ्चो दशपर्यन्तं हस्ते पादोनमङ्गुलम् । विंशत्यन्तं दशोर्ध्व च वृद्धिरर्धाङ्गला करे ॥ २० ॥ शतार्धान्तं ततो हस्तचतुष्के चैकमङ्गुलम् । अनेनैव प्रकारेण भिट्टोच्छायं प्रकल्पयेत् ॥ २१ ॥ एकभिट्ट द्विभिट्ट या भित्रयमथोच्यते । एवं त्रिपुष्पकं चैव हर्षों धर्मों यशोऽपि च ॥ २२ ॥ तृतीये च तदर्धेन पुष्पकान्वितचिप्पिका । उच्छ्यात् पादनिष्काशं कुर्याद्धि स्वस्वमानतः ॥ २३ ॥ कर्णभद्रोपभद्राश्च रथोपरथकर्णिकाः । इदं मानं तु भिट्टस्य पीठं चैव तदूर्ध्वतः ॥ २४ ॥ एकहस्ते तु प्रासादे पीठं वै द्वादशाङ्गुलम् ।
यष्टाशुलं द्विहस्ते च त्रिहस्तेऽष्टादशाङ्गुलम् ॥ २५ ॥ अर्ध पादं त्रिभागं वा निविध परिकल्पयेत् । ऽयंशेनार्धन पादेन चतुर्हस्ते सुरालये ॥ २६ ॥ पादं पीठोच्छ्यं कार्य प्रासादे पञ्चहस्तके । पश्चोर्ध्व दशपर्यन्तं रसांशं हस्तवद्रये ॥ २७ ॥ ततो हस्ते चाष्टमांशा वृद्धिः स्याद बादशावधि । षट्त्रिंशदन्तं वृद्धिस्तु हस्ते के बादशांशिका ॥२८॥ चतुर्विशत्यंशिका तदूर्ध्वं यावच्छतार्धकम् । मध्ये न्यूनेऽधिके पञ्चमांशे ज्येष्ठ कनिष्टकम् ।। २९ ।। त्रिज्येष्ठमिति च ख्यातं त्रिमध्यं विकनिष्ठकम्। तस्याभिधानं वक्ष्येऽहमुदितं नवोच्छ्यात् ॥ ३० ॥