________________
अपराजितपृच्छा अपरे रथशाला स्यान्मठो याम्ये प्रतिष्ठितः। उत्तरे रथरन्धं च नाम्ना सा शान्तिभैरवी ॥ १३ ॥
इति भैरवी ॥ याम्योत्तरे च द्वारा कुर्यादष्टापदं तथा । प्रधानेति च तन्नाम सिद्धकिन्नरसेविता ।। १४ ॥
इति प्रधाना॥ अष्टापदस्य संस्थाने शालात्रिकं तु कारयेत् । सर्वकूटेति तन्नाम कर्तव्या तु जिनेश्वरे ॥ ५॥
इति सर्वकूटा ॥
इति जिनेन्द्रस्य जगत्यष्टकम् यादृशो मूलप्रासादो जगती चैव तादृशी । भिन्नख्छन्दा न कर्तव्या जगती प्रासादस्थितिः ॥१६॥ चतुरथा तथायतावृत्ता वृत्तायता तथा । अष्टाश्रा च तथा कार्या छन्दाः पञ्च प्रकीर्तिताः ॥ १७ ॥ चतुरधा वीरभद्रा सुपताका तथायता । वृत्ता च पूर्णभद्रा च वृत्तायता भद्राङ्गिका ॥ १८ ॥ अष्टाधा व जया प्रोक्ता विजया चैव स्वस्तिका। अजिता षोडशाश्री च द्वात्रिंशाचापराजिता ॥ १९ ॥ समन्ताच शिवे कुर्याजगतीश्चतुःषष्टिकाः । धर्मार्थकाममोक्षाणां प्राप्तिहेतूरभिष्टदाः ॥ २० ॥ आख्याता जगतीछन्दाः पीठमानमतः भ्रुणु । छन्दालङ्कारसंयुक्तं प्रोक्तं यद् वास्तुवेदिभिः ॥ २१ ॥ वैराग्यं पीठमाख्यातं पीठं चैव सुनन्दनम् । मन्दरं तु भवेत्पीठं पीठं त्रैलोक्यभूषणम् ॥ २२ ॥ मलयं चोजयन्तं च पीठं वै गन्धमादनम् । हेमकूट भवेत्पीठं चन्द्रशालं श्रियाननम् ॥ २३ ॥ विजय महातिलकं कामदं देवदुर्लभम् । वाराहपीठं गरुडं श्रीनेत्रं च भद्रारथी ॥ २४ ॥ भद्रं वै राष्ट्रवर्द्धनं शवावर्त च पुष्पकम् । नागरं भद्रतिलकं श्रीवत्सं तु जयावहम् ।। २५ ॥ रत्नकूटं महाकूटं त्रिकूट कूटवर्द्धनम् । हंसं च हसतिलक महाकान्तं मनोहरम् ।। २६ ॥