________________
(१२०) चतुःषष्टिजगतीचतुःषष्टिपीठनामात्मकं विंशत्युत्तरशततमं सूत्रम्॥
विश्वकर्मोवाच--
चतुर्विशतिविस्तारे चत्वारिंशन्मुखायते। द्वौ द्वौ भागौ त्यजेत्कणे पुरतोऽग्रोभयस्तदा ॥ १ ॥ अपरस्यर्जुसूत्रेण प्रासादस्तु कलांशकैः । शुकनासो भवेद् भागो मण्डपः षट्मविस्तृतः॥२॥ भद्रं तु भागनिष्कास उभयो मदक्षयोः । चतुष्किका चेत्तस्याने द्विभागायामविस्तरे ॥ ३ ॥ द्विक्षणं त्रिकमाख्यातं चतुर्भिस्तु चतुष्किका । आयामश्चाष्टभागः स्यात् पृथुत्वं चैव चाष्टतः ॥ ४ ॥ अष्टांशैरुत्तमं ख्यातं मण्डपं नृत्यकं विदुः। द्विभागा क्षणचतुष्का द्विभागा पट्टशालिका ।। ५॥ कुर्याच्छालां द्विभागां वा ह्यष्टौ च देवसम्मुखाः। सप्तलप्तोभये पक्षे द्वाविंशतिर्जिनालयाः ॥ ६॥ त्रिको त्रिकस्योभयतः सङ्ख्या चतुर्विंशतिः । चतुर्भिः पृथुनिष्कासोऽग्रे स्यादेवं बलाणकम् ॥ ७ ॥ श्रीदा शान्तिकरा नित्यं पुरमध्ये सुखावहा । जिनेन्द्रस्य भवनस्था सा वै श्रीकर्णिकाभिधा ॥ ८॥
इति श्रीकर्णी ॥ मण्डपाद् गर्भसूत्रेण त्वष्टापदं याम्योत्तरे। नायिकेति च तन्नाम जिनेन्द्रे सर्वदायिका ॥९॥
___ इति नायिका॥ अष्टापदं परित्यज्य तत्र कुर्याद् बलाणकम् ।। रस्नचूडेति तन्नाम कर्तव्या शान्तिमिच्छता ॥१०॥
इति रत्नचूडा॥ यथापूर्वे तथापरे शाला: स्युश्चतुर्विंशतिः । गोमापती तदा नाम कर्तव्या सर्वकामदा ॥ ११ ॥
इति गोमापती॥ याम्योसरबलाणकानपरे पट्टशालिका। अर्धनारीश्वरी नाम वीतरागे तु शान्तिदा ॥ १२ ॥
इत्यर्धनारीश्वरी ॥