________________
चतुःषष्टिजगतीचतुःषष्टिपीटनामान्मक विंशत्युत्तरशततमं सूत्रम् ।। वर्द्धमान नन्द्यावर्त श्रीकटं विजयोदभवम् । कैलासं पृथ्वी तिलकं पृथ्वीजयं सुभद्रकम् ॥ २७ ॥ इन्द्रनीलं महानीलं भूधरं च किरातकम् । वृषभं भद्रपीठं च द्राविडं च वैराटकम् ॥ २८ ॥ हय॑ हर्यतलं चैव सर्वभद्रं च सुन्दरम् । हिमवानमृतोद्भवं कर्णिकारं महाप्रियम् ।। २२ ।। तुङ्गारं सिंहपीठं च शक्त्याख्यं शक्याख्यं तु भैरवम् । कुलपीठं तथा तूतं शुक्काख्यं व्योम्नःपतिम् ॥ ३० ॥ जयं च विजयं चैव त्वजितं चापराजितम् ।
एवं चतुःषष्टिपीठा वास्तुवेदैरुदाहृताः ॥ ३१ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां चतुःषष्टिजगतीचतुःषष्टिपीठाधिकारी नाम त्रिंशत्युत्तरशततमं सूत्रम् ॥