________________
(११९) सूर्यस्थपार्थिव्यष्टजगती लक्षणात्मक मे कोनविंशत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
L.
चतुर्विंशतिर्भागाः स्युः षट्त्रिंशतिर्मुखायता । चतुर्भागो भवेत् कर्णः प्रतिरथस्तु तत्सम : ॥ १ ॥ द्वौ द्वौ भागौ तु निष्कासो भद्रे चैव प्रतिरथे । अष्टभागात्परं भद्रं विंशतिर्वामदक्षिणे ॥ २ ॥ चतुर्भागं द्वारमानं सोपानपङ्क्तिसंचयम् । भद्रकोणो भवेद् भागो भागः शुण्डी तु विस्तरे ॥ ३ ॥ कर्णात्परमसूत्रं प्रासादश्च कलांशकैः 1 शुकनासो मण्डपश्च पूर्वमानविकल्पितौ ॥ ४ ॥ कर्णे प्रतिरथे चैव शाला द्वादश कल्पयेत् । सूर्याख्या सा समाख्याता सिद्ध किन्नरसेविता ॥ ५ ॥ इति सूर्याख्या ॥
प्रदद्याद्ग्रशालाश्च सर्वालङ्कारसंयुता । चन्द्रमण्डला तन्नाम सर्वविघ्न विनाशिनी ॥ ६ ॥
इति चन्द्रमण्डला ॥
परित्यज्याग्रशालाश्च भद्रे दद्याद् याम्योत्तरे । चन्द्रभासा तदा नाम वन्दिता त्रिदशैरपि ॥ ७ ॥
इति चन्द्रमाला |
प्रदद्याद्ग्रशालाश्च सर्वलक्षणसंयुत । । मेघोदरी तस्या नाम कर्तव्या च दिवाकरे ॥ ८ ॥ इति मेघोदरी ॥ भद्रशाला भद्रगर्भे स्वायता सर्वकामदा | माहेन्द्री तु तस्या नाम सर्वकल्याणकारका ॥ ९ ॥
इति माहेन्द्री ||
याम्योत्तरे तथा भद्रे शालात्रिकं तु कारयेत् । विजयानन्दा नामाख्या त्रिदशैरपि दुर्लभा ॥ १० ॥ इति विजयानन्दा ॥
अपरे तु तथा नन्दा शालात्रिकं सुलक्षणम् । प्रतापतेजा तन्नाम कर्तव्या सर्वकामदा ॥ ११ ॥
इति प्रतापतेजा ||