________________
२९.८
अपराजित पृच्छा
अग्रशाला तु तद्रूपा सर्वालङ्कारसंयुता । विजयप्रभेति नाम्ना सा चादित्यसमप्रभा ॥ १२ ॥
इति विजयप्रभा ||
इति सूर्याजगत्यः ॥
पञ्चविंशतिर्विस्तार आयामः पञ्चत्रिंशतिः । भागो भवेत्कर्णो भद्रं चैव त्रयोदश ॥ १३ ॥ वामदक्षिणभद्राणां विभागाः सप्तविंशतिः । निर्गमे कर्णतुल्यानि सर्वभद्रेष्वयं विधिः ॥ १४ ॥ अपरस्यर्जुसूत्रेण प्रासादः पञ्चभागिकः । शुकाश्च भवेद्भागो मण्डपः सप्तविस्तरः ॥ १५ ॥ द्वारत्रयं मण्डपस्य जगतीनां तु कारयेत् । गण्डशुण्डिका सोपानं पूर्वमानेन कल्पितम् ॥ १६ ॥ चतस्रः कर्णशालाश्च कर्तव्याश्च सुलक्षणाः । वसुन्धरीति तन्नाम देवानां सततप्रिया ॥ १७ ॥ इति वसुन्धरी ॥
पूर्वे च भद्रकोणे व शाले द्वे तु मनोरमे । हरिप्रियेति तन्नाम सिद्ध किन्नरसेविता ॥ १८ ॥
इति हरिप्रिया ॥
तथापरे यथापूर्वे शालां कुर्यान्मनोरमाम् । राजेश्वरीति तन्नाम वन्दिता त्रिदशैरपि ॥ १९ ॥
इति राजेश्वरी ॥
त्यक्त्वा चापभद्रे तु द्वे च याम्योत्तरे विदुः । पार्थिवीति तु तन्नाम पूजिता सुरकिन्नरैः ॥ २० ॥
इति पार्थिवी ||
पुनश्चापभद्रे तु शाला: कुर्यान्मनोरमाः । सरस्वतीति तन्नाम पूजिता देवदानवैः ॥ २१ ॥
इति सरस्वती ।
पुरतो ह्यशाला च कर्तव्या सर्वकामदा | कुसुमाख्येति सा चैवमाख्याता वास्तुवेदिभिः ॥ २२ ॥
इति कुसुमाख्या ॥