________________
२९६
ब्रह्मविष्णुत्रिपुरुषजगती नामाष्टादशोत्तरशततमं सूत्रम् ॥ भागमेकं यदा कर्णे पुनर्भागं तु विस्तरे। शाला सूत्र प्रदातव्या प्रभेदनयना मता ॥ २६ ॥
इति प्रभेदनयना । वामदक्षिणभद्रे तु कर्तव्यं च त्रिशालकम् । कनकेति च तन्नाम कर्तव्या सर्वकामदा ॥ २७ ॥
___ इति कनका॥ अपरे तु त्रिशालं च पूर्वेऽपि गुणसंयुतम् । विष्णुदेवे तथा चैव कर्तव्या त्रिदशोद्भवा ॥ २८ ॥
इति त्रिदशोद्भवा ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
ब्रह्मविष्णुत्रिपुरुषजगत्यधिकारो नामाष्टादशोत्तरशततमम् सूत्रम् ।।