________________
अपराजितपृच्छा बलाणकानि कार्याणि त्रिषु द्वारेषु शाश्वतम् । ब्रह्माणीति च तन्नाम ब्रह्मदेवप्रियात्मिका ॥ १३ ॥
इति ब्रह्माणी॥ याम्योत्तरे तथा द्वारे कारयेच्च तथापरे । चतुराननेति तन्नाम शाश्वतं कमलासने ॥ १४ ॥
इति चतुरानना ॥ चतुरथं समं शुद्धं द्वाविंशतिविभाजितम् । मध्ये षट्त्रिंशद्भागैस्तु मण्डपं शुभलक्षणम् ।। १५ ॥
इति ब्रह्मणो जगत्यष्टकम् ।। पूर्वोत्तरे तथा याम्ये भागेन शुकनासकम् । तस्यामाप्रासादानां कुर्याश्चन्द्रकलांशकैः ।। १६ ॥ चतुष्की पूर्वद्वारे तु कर्तव्या लक्षणान्विता । प्रासादषोडशांशेन हीनाङ्गा वामदक्षिणे ॥ १७ ॥ जगत्यपरकणे तु भागमेकं तु विस्तरः। निर्गमः पञ्चभागैश्च विस्तरो लिङ्गभागिकः ॥ १८॥ दिक्षु तिसृषु कर्तव्यं भद्रं वै सर्वकामदम् । अग्रभद्रस्य निष्कासो भागेश्चैकादशैस्तथा ॥ १९ ।। शुण्डिकाद्वारसोपानं पूर्वमानविकल्पितम् । जगतीमूलसीमाग्रे कर्तव्यो मण्डपः शुभः ॥ २०॥ षड्भागैश्चैव विस्तीर्ण कर्तव्यं नृत्तमण्डपम् । त्रिपुरुषेति विक्षेया नाम्ना नारायणी शुभा ॥२१॥
इति नारायणी॥ भद्रकणे तथा वायौ शालाश्चेत्सर्वकामदाः । त्रिदशेन्द्री तदा नाम सिद्धकिन्नरसेविता ॥ २२॥
इति त्रिदशेन्द्री॥ गर्भशालापरभद्रे भवेत्सर्वकामदा । कौमारीति तदा नाम कीर्तिता पापनाशिनी ॥ २३॥
इति कौमारी॥ त्यक्त्वा चापरशालां तु शालां दद्याद याम्योत्तरे । इंसमालेति तन्नाम कर्तव्या सर्वकामदा ॥ २४ ॥
इति इसमाला ॥ प्रयोजयेदप्रभागे शाला चेल्लक्षणान्विताम् । पत्रावली तदा नाम जगती सर्वकामदा ॥ २५ ॥
इति पत्रावली ॥