________________
(११८) ब्रह्मविष्णुत्रिपुरुषजगती नामाष्टादशोत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
आयामो विशद् द्विगुणः पृथुत्वं चाष्टाविंशतिः । ऋज्वपरकर्णसूत्रे प्रासादश्च कलांशकैः ॥ १॥ द्विपदानि तवङ्गानि विस्तरैर्निर्गमैस्तथा । शुकनासा चैकभागा षड्भागो मण्डपस्तथा ॥२॥
चतुष्कीद्वारसोपानं पूर्वमानविकल्पितम् ॥ ३ ॥ आधोद्भवकलशान्तं सपीठं त्रिगुणोनतम् । अगती तेन मानेन सीमान्ते वामदक्षिणे ॥४॥ रथोपरथशोभायं भद्रोपभद्रमेव च । अतः सीमा ततो बाह्य जगती प्रासादोद्भवा ॥५॥ त्यक्त्वा कर्णेषु तुर्याशं पुनः कर्णों वेदांशकः । द्वादशांशापरभद्रं द्विगुणं वामदक्षिणे ॥६॥ कणे तु- - निष्काशं मूलसीमान्तसूत्रतः । हंसध्वजा तदा नाम ब्रह्मणश्च प्रियात्मका ॥ ७ ॥ इति हंसध्वजा ।। अग्रशाला तु दातव्या सर्वालङ्कारशोभिता। रस्नगर्भा तदा नाम कर्तव्या सर्वकामदा ॥ ८॥
इति रत्नगर्भा ॥ अपरभद्रेषु शाला: कर्तव्याः सर्वकामदाः । चक्रमाला तदा नाम चतुराननवल्लभा ॥९॥
इति चक्रमाला॥ अग्रशाला परित्यज्य भद्रे दद्याद याम्योत्तरे। भ्रमरावली तन्नाम कर्तव्या वेदसम्भवे ॥१०॥
इति भ्रमरावली ।। अग्रशाला पुनर्दद्यात् सर्वालङ्कारसंयुता। नक्रध्वजेति तन्नाम कर्तव्या तु पितामहे ॥ ११ ॥
इति मकरध्वजा ।। शाला याम्योत्तरे त्यक्त्वा द्वारे सोपानशुण्डिका । चतुर्मुखे च कर्तव्या महालक्ष्मी पुर्मध्यगा ॥ १२ ॥
इति महालक्ष्मी।