________________
२९३
गणपतिशिवाष्टाष्टजगतीलक्षणात्मकं सप्तदशोत्तरशततम सूत्रम् ॥ धीविजयेति तन्नाम कर्तव्या सर्वकामदा। विजयस्योद्भवो नित्यं यः कुर्यात् तां शिवालये ॥ २६ ॥
इति श्रीविजया ॥ अप्रशाला समायुक्ता कर्तव्या सर्वशोभना। सा रुद्रमेखला ख्याता सिद्धकिन्नरसेविता ॥ २७ ॥
इति रुद्रमेखला॥ उभयभद्रेष्वकैकां कर्णे दद्याच शालिकाम् । शालाश्चैव प्रभ्रष्टाश्च सुविशाला नाम्ना भवेत् ॥ २८ ॥
इति सुविशाला॥ प्रदद्यादग्रशालां च सर्वलक्षणसंयुता। विराजिता तदा नाम पूजिता त्रिदशैरपि ॥२९॥
इति विराजिता ॥ याम्योत्तरापरभद्रे कर्णे दद्याश्च शालिकाः । पार्वती च तदा नाम ईश्वरस्य प्रियात्मिका ॥ ३०॥
इति गौरी॥ अप्रशाला समायुक्ता सर्वालङ्कारसंयुता। सुरासुरैश्चार्चनीया नाम्ना गङ्गातरङ्गिणी ॥ ३१ ॥
इति गङ्गातरङ्गिणी ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां गणपतिशिवाष्टाष्टजगतीलक्षणाधिकारी नाम सप्तदशोत्तरशततमं सूत्रम् ॥