________________
२९२
अपराजितपृच्छा अप्रशाला परित्यक्ता पार्श्वभद्रकर्णद्वये। चित्रकूटेति तन्नाम गणगन्धर्वसेविता ॥ १३ ॥
इति चित्रकूटा॥ पूर्वकणे तथाद्वारे शाला दद्यात्तु शोभनाम् । श्रीमालेति च तन्नाम कर्तव्या सर्वकामदा ॥ १४ ॥
इति श्रीमाला ॥ अग्रशाला समायुक्ता सर्वकामफलप्रदा । गणेन्द्रस्य प्रकर्तव्या नाम्ना तु गगनोदरी ॥ १५ ॥
___ इति गगनोदरी॥
इति गणेन्द्रस्य जगत्यष्टकम् ॥ तद्रुपे तत्प्रमाणे च कर्णशाला यथा भवेत् । पदिक भ्रमणं चैव जगती स्यात् सुरान्तरे ॥ १६ ॥ चतुर्भागो भवेत् कर्णो भागैकमुदकान्तरम् । क्षोभणा चार्धभागेन सर्वकामफलप्रदा ॥ १७ ॥ द्विभार्ग कर्णभद्रं च पादभागेन निर्गमः ।। शाला द्विभागा कर्तव्या भागेकं भ्रमणं तथा ॥ १८ ॥ अपरभद्रेषु कर्तव्यं भद्रत्रिभागनिर्गतम् । साधं कुर्याश्च द्वे पार्श्व भागाध निर्गतं पुनः ॥ १९ ॥ कुर्यात्पाय तु तत्तुल्यं निर्गमश्च विंशार्धकः ? । चतुर्भागश्च विस्तारो मुखभद्रं विधीयते ॥ २०॥ द्विपदं देवकुलाख्या पदार्ध शुकनासकम् । मण्डपं च त्रिभिर्भागः पदिकभ्रमणैः सह ॥ २१॥ शालाश्रयं प्रकर्तव्यं मण्डपाश्चक्रभूषिताः। अप्रशाला विधातव्या याम्योत्तरपूर्वक्रमैः ॥ २२ ।। चतुर्दशागारयुता नाम्ना सा चेन्द्रसम्पदा । स प्राप्नुयादिन्द्रपदं तां कुर्याद्यः शिवालये ॥ २३ ॥
इतीन्द्रसम्पदा॥ प्रदद्यादप्रशालाश्च पूर्वमानं च कल्पयेत् । तदा नाम्ना त्रिभुवना त्रिदशैरपि दुर्लभा ॥ २४ ॥
इति त्रिभुवनाख्या ॥ अप्रशाला प्रकर्तव्या भद्रिकायुक् याम्योत्तरे। भद्रेऽपरे यथाकारा तद्रपा च याम्योत्तरे ॥ २५ ॥