________________
(११७) गणपतिशिवाष्टाष्टजगतीलक्षणात्मक ससदशोत्तरशततम सूत्रम् ॥
विश्वकर्मोवाच
चतुरधीकृते क्षेत्रे विंशत्यशैस्तुविस्तरः। द्वात्रिंशदशैरायामः कर्तव्यश्च मुखायतः ॥ १ ॥ अपरस्यर्जुसूत्रेण प्रासादश्च कलांशकैः। षत्रिंशद्भिः पदैश्चैव मण्डपः शुभलक्षणः ॥ २ ॥ शुकघ्राणं भवेदार्ग प्रासादश्च कलांशकः। चतुष्की मूलसूत्रेण त्रिदिशं मण्डपस्य च ॥३॥ पञ्चभागो भवेत् कणों भद्रस्य दिपविस्तरः । कर्णा? निर्गमः कार्यः प्रोक्तो भद्रेष्वयं विधिः ॥ ४॥ द्वाविंशत्यायते भद्रे प्रकुर्याद् वामदक्षिण । पूर्वभद्रार्धभागं तु गडगंड त तुल्यतम् ॥५॥ शुण्डिका भागविस्तारा द्वारं पृथुप्रासादके । निर्गमश्च चतुर्भागैः शुण्डालोपानसञ्चयम् ॥ ६॥ कर्णशाला द्विभागा स्याद् भ्रमणं सार्धभागकम् । सार्धपञ्चविभागैस्तु शाला प्रासादस्योत्तरे ॥७॥ पञ्चाण्डकसमायुक्ता सुभद्रा सर्वकामदा। सर्वविघ्नोपशमना स्वर्गभोगप्रदायिका ॥ ८॥
इति सुभद्रा ॥ प्रदद्यादग्रशालाश्च कर्णशालादिसूत्रतः। प्रासादाभिमुखा कार्या सर्वतोभद्रा नामतः ॥९॥
इति सर्वतोभद्रा । पृष्ठभागे प्रतिभद्रं षड्भागैः पूर्वनिर्गमः । शालापूर्वप्रमाणेन त्रिभागैश्च कृतायती ॥१०॥
इति ललिता॥ परित्यक्तानशाला च पृष्ठतुल्या व्यमोहके। लीलोदरीति तन्नाम त्रिदशैरपिदुर्लभा ॥ ११ ॥
इति लीलोदरी ॥ अग्रशालां पुनर्दद्यात् त्रिकूटा नाम शोभना । गिरिसुतासुतकीडा मनोल्हादनकारिका ॥ १२ ॥
इति त्रिकूटा ॥