________________
२९०
अपराजित पृच्छा
वीतरागे इति ख्याताः कर्तव्याः सर्वकामदाः । सर्वकामफला नित्यं सुखदाश्च पुरः पतेः ॥ १५ ॥
वीरभद्रा सुपताका सुभद्रा पूर्णभद्रिका | भद्राङ्गी जया विजया चाजिता ह्यष्टमी तथा ॥ १६ ॥ सर्वदेवेषु कर्तव्याः शाश्वताः सुसुखावहाः । इत्यष्टौ च प्रकर्तव्याश्चतुःषष्टिरुदाहृताः ॥ १७ ॥ चतुःषष्टिश्च जगतीनामभेदाः क्रमोदिताः । देवतानुक्रमस्थानं कथितं सर्वकामदम् ॥ १८ ॥
इति सूत्रसन्तानगुणर्कीर्तिप्रकाशप्रोक्तृ श्रीभुवन देवाचार्योक्ता पराजित पृच्छायां चतुःषष्टिजगती नाम मेदाधिकारो नाम षोडशोत्तरशततमं सूत्रम् ॥