________________
(११६) चतुःषष्टिजगतीनामभेदात्मकं षोडशोत्तरशततम सूत्रम् ॥
विश्वकर्मोवाच
जगत्या लक्षणं चैव प्रोक्तं वै वास्तुवेदिभिः । नामानि गुणदोषाणां विभागाश्छन्द एव च ॥ १ ॥ सुभद्रा सर्वतोभद्रा ललिता च लीलोदरी । त्रिकूटा चित्रकूटाख्या श्रीमाला गगनोदरी ॥२॥ गजानने चोत्कटाक्षे सिन्दूररेणुवल्लभे। जगत्योऽष्टौ प्रकर्तव्याः सर्वकामफलप्रदाः ॥३॥ इन्द्रपदा त्रिभुवना विजया रुद्रमेखला । सुविशाला विराजिता गौरी गङ्गातरङ्गिणी ॥४॥ महेन्द्रे च प्रकर्तव्याः शान्तिदाः पुरमध्यगाः । पता अष्टौ जगत्यश्च कामध्वंसिप्रियाः स्मृताः ॥ ५॥ हंसध्वजा रत्नगर्भा माला व भ्रमरावली । नकध्वजा महालक्ष्मी ब्राह्मणी चतुरानना ॥ ६ ॥ लोकनाथसमुत्सृष्टा जगत्यः सर्वशान्तिदाः। कार्याश्च ब्रह्मकेन्द्रेषु पुरमध्ये सुखावहाः ॥ ७ ॥ नारायणी त्रिदशेन्द्री कौमारी हंसमालिका। पत्रावली प्रभेदा च कनका त्रिदशोद्भवा ॥ ८॥ लक्ष्मीप्रिये जगन्नाथे विष्णुदेवे सनातने । जगत्योऽष्टौ प्रकर्तव्याः सर्वकामफलप्रदाः ॥९॥ सूर्याख्या चन्द्रमण्डला चन्द्रभासा मेघोदरी। माहेन्द्री विजयानन्दा तापतेजा जयप्रभा ॥ १०॥ आदित्ये तु समाख्याता: सूर्यलोकसमुद्भवाः । एतास्त्वष्टौ जगत्यः स्युर्दिवाकरसुखावहाः ॥ ११ ॥ वसुन्धरा हरप्रिया राजेश्वरी च पार्थिवी । सरस्वती कुसुमाख्या चूडामणिमहोत्कटा ॥ १२ ॥ गौर्या तथा च चामुण्डयां हरसिद्धौ सभासु च। पतास्त्वष्टौ प्रकर्तव्या इच्छाभुक्तिप्रदायकाः ॥ १३ ॥ श्रीकर्णा नायिका चैव रलचूडा गोमापतिः।
अर्धनारी भैरवी च प्रधाना सर्वकूटका ॥ १४ ॥ ३७ अ.