________________
२८८
जगत्यङ्गसमुदायो नाम पञ्चदशोत्तरशततम सूत्रम् ॥ जलनिष्कासमकरमुखैश्च विकृताननैः । उत्तानपादोन्नता च हस्ते हस्ते चतुर्यवाः ॥ ३२ ॥ यथा सिंहासने राजा शोभते मणिदीप्तिभिः । तथा जगत्यां प्रासादः पीठकोपशोभितः ॥ ३३॥ आदिमूर्तिः पदन्यासात् प्रतिहारा वामदक्षिणाः । वामे चैव भवेन्नन्दी महाकालश्च दक्षिणे ॥ ३४॥ याम्यद्वारे भवेद् भृङ्गी हेरम्बश्चैव दक्षिणे । पश्चिमे दुर्मुखो वामे पाण्डुरो वाथ दक्षिणे ॥ ३५ ॥ सौम्यां चैव सितो वामेऽसितश्चैवं तु दक्षिणे । मूलगर्भे भित्तिगर्भे सीमान्तं द्वारविस्तरः ॥ ३६॥ सजसेनश्चतुर्भागे भारपुत्तलिकायुतः। वेदिकारूपसंघाटः सप्तभागसमुच्छ्रितैः ॥ ३७॥ द्विपदं चासनपट्टे कूटागारैः समन्वितम् । लीलासनं सुखार्थ च कक्षालनं करोन्नतम् ।। ३८ ॥ गण्डाग्रे शुण्डिकाने व प्रतोल्यग्रे तथैव च । तोरणं त्रिविध क्षेयं ज्येष्ठमध्यकनिष्ठकम् ।। ३९ ॥ जगतीपृथुमानेन तत्रान्तरं निगद्यते । अधिकं षोडशं चैव विभकं नवधा पुनः॥४०॥ त्रिधा ज्येष्ठमिति ख्यातं त्रिधा मध्य कनिष्ठकम् । ब्रह्मस्थानादिगर्भे च स्तम्भगर्भ च तोरणम् ॥ ४१ ॥ स्तम्भगर्भ भित्तिगर्भे तन्मध्ये च विचक्षणः । तोरणस्य च स्तम्भस्य विस्तरः कथितो मया ॥ ४२ ॥ पट्ट पट्टानुसारेण चेलिकावलनैर्युतम् । वाहनं यस्य देवस्य तदग्ने च प्रदापयेत् ॥ ४३ ॥ एकद्वित्रिचतुः पञ्चषट्सप्तानुक्रमेण तु । चतुष्किका च कर्तव्या सर्वकामफलप्रदा ॥४४॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
जगत्यङ्गसमुदायाधिकारो नाम पञ्चदशोत्तरशततमं सूत्रम् ॥