________________
૨૮૭
अपराजितपृच्छा भ्रमणी त्रिभागोत्सेधे यावन्मूलप्रासादकम् । कर्णों देवकुलाशतायतन तत्स्मृतम् ? ॥ १५॥ तथैवानुक्रमैर्वृद्धिर्भमण्यो यावत् षोडश । भद्रनिष्काशस्तबाह्ये शेषाः कर्णैव सङ्ख्यया ॥ १६ ॥ चतुर्दारसमायुक्तैश्चतुर्भिर्मण्डपैस्तथा। दिदिग्द्वारसमायुक्तं सहस्रायततोत्तमाः १ ॥ १७ ॥ प्रासादस्यानुमानेन बहुदेवकुलानि च । प्राकारं कुर्यात्विदानी षड्विधं च सलक्षणम् ॥ १८॥ कर्णजा भ्रमजाश्चैव भद्रजा गर्भजास्तथा । मध्यजाः पार्वजाश्चैव भेदा वै षड् भवन्ति च ॥ १९ ॥ कर्णेषु कर्णजा ख्याता भ्रमजा च परिभ्रमे। भद्रजा भद्रसम्भूता गर्भजा गर्भमानतः ॥ २० ॥ परिभ्रमस्य मध्यागे मध्यजा सा प्रकीर्तिता। चतुःपार्येषु तस्याश्च पार्श्वजा साभिधीयते ॥ २१ ॥ प्रतोली चाग्रतः कार्या कपाटपुरसंयुता । दृढार्गला च कर्तव्या कथ्यतेऽथ तथोच्छ्यः ॥ २२॥ एकहस्ते तु प्रासादे जगत्या उच्छ्यः समः। द्विहस्ते हस्तसार्धस्तु त्रिहस्ते तु द्विहस्तकः ॥ २३ ॥ सार्ध द्विकरमुत्सेध; प्रासादे वेदहस्तके । चतुर्हस्तस्योपरिष्ठाद यावद् द्वादशहस्तकम् ॥ २४ ।। प्रासादस्यार्धमानेन त्रिभागेन ततःपरम् । चतुर्विंशतिहस्तान्तं कारयेत्तद्विचक्षणः ॥ २५॥ पादेनैवोच्छ्यं तावद् यावत्पश्चाशद्धस्तकम् । एवमन्यश्च कर्तव्यो जगतीनां समुच्छ्यः ।। २६ ॥ तथोच्छ्यं भजेत्प्राज्ञ अष्टाविंशपदैरधः । जाध्यकुम्भं च त्रिपदं कर्णकं द्विपदं तथा ॥ २७ ॥ पनपत्रसमायुक्ता त्रिपदा शीर्षपत्रिका । क्षुरक द्विपदं प्रोक्तं कुम्भकं सप्तभिः पदैः ॥२८॥ त्रिपदः कलश: प्रोक्तः पदं चान्तरपत्रिकम् । कपोताली च त्रिपदा पुष्पकं युगसङ्ख्यया ॥ २९ ॥ पुष्पकण्ठसुजालम्भ निर्गत चाष्ट्रभिः पदैः । कर्णेषु च दिशापालाः प्राच्यादिषु प्रदक्षिणाः ॥ ३०॥ जगत्यां पश्चिमे भद्रे रथिकैकत्रिभिस्तथा । त्रिचतुःपञ्चषरवैः कर्तव्या वामदक्षिणम् ॥ ३१ ॥