________________
(११५) जगत्यङ्गसमुदायो नाम पञ्चदशोत्तरशततम सूत्रम् ॥
अपराजित उवाच
जगती तु किमाकारा कियती दैर्ध्यविस्तरे। तथोयं कथय मे स्तरमानं विशेषतः॥१॥ प्रतिहारदेवकुलपङ्क्तिसोपान एवच ।
आलयं सर्वदेवानां मालिकाक्रमयोगतः ॥२॥ विश्वकर्मोवाच
सुरालयविभूत्यर्थ भूषणार्थ पुरस्य तु । नराणां भुक्तिमुक्त्यर्थ सत्यार्थ चैव सर्वदा ॥३॥ लोकानां धर्महेतुश्च क्रीडाहेतुश्च स्वर्भुवाम ! कीर्तिरायुर्यशोऽर्थ च राज्ञां कल्याणकारकः ॥ ४॥ प्रासादो लिङ्गमित्युक्तो जगती पीठमेव च। प्रतीहारदेवकुलविभागा नामतः परे ॥५॥ जगत्या लक्षणं वत्स शणु वक्ष्यामि साम्प्रतम् । सा चामूढदिशाभागा मनोज्ञा सर्वतः प्लवा ॥६॥ चतुरश्रा तथायता वृत्ता वृत्तायता तथा । अष्टाधा च तथा कार्या प्रासादस्यानुरूपतः ॥७॥ ज्येष्ठा कनिष्ठप्रासादे मध्यमे मध्यमा तथा । ज्येष्ठे कनिष्ठा व्याख्याता जगती मानसङ्ख्यया ॥८॥ कनिष्ठे भ्रमणी चैका मध्यमे भ्रमणीद्वयम् । ज्येष्ठे तिस्रो भ्रमण्यश्च साङ्गोपाङ्गिकसङ्ख्यया ॥९॥ प्रासादपृथुमानेन द्विगुणा चोत्तमा तथा। मध्यमा चतुर्गुणा याधमा पञ्चगुणोच्यते ॥ १०॥ षट्सप्तगुणाख्याता च युक्तिपर्यायसंस्थिता । यत्र त्रिपुरुषा यद्वा द्वारिकायां निगद्यते ॥ ११ ॥ समा सपादा साझेचा द्विगुणा वा मुखायते । अपराजितकर्णाढ्या पूर्वमण्डपानुक्रमैः ॥ १२ ॥ करद्वादशकेऽर्धाशं शालाव्यंशं द्वाविंशके । द्वात्रिंशतिश्चतुर्थाशं सा भूतांशं शतार्धके ।। १३ ।। चतुरधा सूर्यकर्णा विंशकर्णाष्टविंशतिः । तथा षटत्रिंशत्कर्णा च भ्रमण्य: पञ्च कीर्तिताः ॥ १४॥ .