________________
२८३
अपराजितपृच्छा पांशुना क्रीडमानोऽपि यः करोति शिवालयम् अवश्यं लभते लक्ष्मी पशुपति निष्कण्टकम् ॥ १५ ॥ पद्मशिलाद्वारे चैव तच्छिलापुरुष तथा। कलशध्वजे प्रतिष्ठा सप्तगुणं पुण्यं भवेत् ॥ १६ ।। राजसं तामसं चैव सात्त्विकं च तृतीयकम् । धर्मस्य त्रिविधं ज्ञानं संसारे संप्रवर्तते ॥ १७ ॥ समन्तादन्यद्रव्येषु राजले दिगगुणाधिकम् । तामसे शतधा पुण्यमनन्तं सात्त्विके तथा ॥ १८ ॥ यश्च देवालयं कुर्यात् स्वलेोके लभते ध्रुवम् । क्रीडां सह सुरस्त्रीभिर्मानवो देवता भवेत् ॥ १९ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितम्छायां
प्रासादन्यूनाधिकलक्षणाधिकारो नाम त्रयोदशोत्तरशततम सूत्रम् ।।