SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ (११४) मिश्रकप्रासादसप्तपुण्याहमाहात्म्यं चतुर्दशोत्तरशततमं सूत्रम् ॥ विश्वकर्मोवाच मिश्रकं तच्छन्दं च नागरं च मण्डोवरम् | शिखरं विमानोद्भवं प्रासादं सर्वकामदम् ॥ १ ॥ मिश्रकं तलच्छन्दं च पीठं वै नागरं स्मृतम् । द्राविडा च भवेज्जङ्घा शिखरं विमानोद्भवम् ॥ २ ॥ अथ हेमपुरे दिव्ये शतयोजनविस्तृते । एकच्छत्रधरं राज्यं लभते जन्मजन्मनि ॥ ३ ॥ सुखदा सर्ववर्णानां स्वर्गे तत्कृन्महीयते । ईप्सितं लभते राज्यं स्वर्गे वाथ महीतले ॥ ४॥ मिश्रकस्तलच्छन्दे च पीठे च द्राविडः 1 स्मृतः मण्डोवरे वराटश्च शिखरं चात्मभूमिजम् ॥ ५ ॥ नवखण्डभुवो मध्ये राज्यं जन्मनि जन्मनि । इच्छास्थाने लभेद्राज्यं क्रीडन्ति च सुराङ्गनाः ॥ ६ ॥ मिश्रकस्तलच्छन्दे च भूमिजश्च मण्डोवरे । पुष्पकात्मज संयुक्तं शिखरं द्राविडोद्भवम् ॥ ७ ॥ अथ हेमपुरे रम्ये शतयोजनविस्तृते । एकच्छत्रधरं राज्यं लभते जन्मजन्मनि ॥ ८ ॥ मिश्रकस्तलच्छन्दे च मण्डोवरे च भूमिजः । वराटः शिखरे ख्यातः पूज्यः सुरनरोरगैः ॥ ९ ॥ कूर्मशिला तथाद्वारं पद्मकं पुरुषः क्रमात् । कलशो ध्वजः प्रतिष्टा च सप्तपुण्याहकानि च ॥ १० ॥ कृते कूर्मप्रतिष्ठायाः खाते पूर्णे च संस्थितौ । भूमिलोके तथा राज्यं सर्वजन्मसु शाश्वतम् ॥ ११ ॥ प्रतिष्ठायां शिलायास्तु दैवज्ञैस्सत्यमुच्यते । इच्छास्थाने स्वर्गलोके राज्यं जन्मनि जन्मनि ॥ १२ ॥ द्वारे प्रतिष्ठमाने तु स्तम्भोछ्रयसमन्विते । महापुरं च लभते काञ्चनं शतयोजनम् ॥ १३ ॥ पद्मशिलाप्रतिष्ठायां शिवालये भूमस्तके | एकच्छत्रं महाराज्यं जनलोके च प्राप्नुयात् ॥ १४ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy