________________
(११३) प्रासादन्यूनाधिकलक्षणात्मकं त्रयोदशोत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
पते सर्वेऽपि प्रासादा देशानुक्रमसंस्थिताः। तेषामनुक्रमं वक्ष्ये प्रासादानां तु सर्वतः ॥ १॥ विभक्तिं तलच्छन्दे तु शिखरोचे हि कारयेत् । ऊर्ध्वाभिधानकं ख्यातं तलच्छन्दं हि तं तथा ॥२॥ छन्दच्छन्दो यत्र नास्ति तत्राची स्थापयेन हि । तत्प्रासादफल नैव ततो मोक्षो न लभ्यते ॥ ३ ॥ होनमाने तु ये दोषाः कथये तान् समासतः । आयुनि द्वारहीने नालिहीने धनक्षयः॥४॥ अपदस्थापितैः स्तम्भैर्महारोगं विनिर्दिशेत् । स्तम्भन्यासोदये हीने कान्ता तत्र विनश्यति ॥५॥ प्रासादे पीठहीने तु नश्यन्ति गजवाजिनः । रथोपरथहीने तु प्रजापीडां विनिर्दिशेत् ॥ ६॥ कर्णहीनों यदा वास्तुरयुक्तफलमादिशेत् । क्रीडन्ति राक्षसास्तत्र फलं कापि न विद्यते ॥ ७ ॥ जधाहीने भवेद् बन्धुकर्तृकावरनाशनम् । शिखरे हीनमाने तु नश्यन्ति पुत्रपौत्रकाः ॥ ८॥ अतिदीधै कुलोच्छेदो ह्रस्वे व्याधिसमुद्भवः। स्थपुटस्थापने पीडा कर्ता तत्र विनश्यति ॥९॥ स्कन्धहीनः कबन्धश्च समसन्धिः शिरोगुरुः । अप्रसारितपादश्च पञ्चैते धननाशनाः ॥ १० ॥ मानाधिको न कर्तव्यो मानहीनं न कारयेत् । शास्त्रोक्तविधिमानेन शुभदं सर्वकर्मसु ॥ ११ ॥ वापीकूपतडागानि प्रासादभुवनानि च । भन्नानि तुद्धरेद्योऽसौ लभतेऽष्टगुणं फलम् ॥ १२॥ प्रतिमालिङ्गवेदीनां यावद्रेण्वंशकं भवेत् । तावस्कोटिसहनान्द रुद्रलोके स तिष्ठति ॥ १३ ॥ कोटिवर्ष तृणच्छन्दे दशकोट्यस्तु मृण्मये । इष्टिकायां दशगुणं पुण्यं शैले घनन्तशः ॥ १४ ।।