________________
२७९
अपराजितपृच्छा छन्दालङ्कारहीनाश्च रूपमानविवर्जिताः । पवमाद्या अनेके च दोषा बहुविधाः स्मृताः ॥ १५ ॥ तस्मात् सर्वप्रयत्नेन पूर्वसूत्रं न चालयेत् । चलिते चालिते चव तस्य स्थाने तु विग्रहम् ॥ १६ ॥ हीने हानि प्रकुरुते यधिके स्वजनक्षयम् ।। आयहीने तु प्रासादे स्वामिनस्तु क्षयो भवेत् ॥ १७ ॥ स्तम्भवेधे भयं घोरं स्वकुलोच्छेदनं भवेत् । हन्याद् बन्धून मर्मवेधे त्रिशूले च महाभयम् ॥ १८ ॥ शल्ये चार्थविनाशस्तु छन्दहीने सुताद् भयम् ।
मानहीने प्रजापीडा स्थूले चोरभयं तथा। प्रविहीने च विद्वेषो दुर्भिक्षं शत्रुविग्रहः ॥ २०॥ आयहीनेऽनपत्यत्वं व्ययहीने च भोगदम् । पीठहीने तु प्रासादे नश्यन्ति गजवाजिनः ॥ २१ ॥ तस्मात् सर्वप्रयत्नेन पूर्वसूत्रं न चालयेत् । अधिकाङ्गश्च कर्तव्यः प्रासादो भूषणैर्गुणैः ॥ २२ ॥ न चाधिकं तु कुर्वीत यावत् पादविशोधितम् । नवं चारोपयेवास्तु पुरप्रासादमन्दिरे ॥ २३ ॥ चतुरस्तो ? द्विधा भूमियुक्ता पूर्वोत्तरप्लवा । शङ्कप्राचीवास्तुपूजां कुर्याद् भूमिपरिग्रहम् । पादप्रतिष्ठादिकृत्यं यावश्च मिट्टपूरणम् ॥ २४॥ प्राचीशुद्धं समक्षेत्रमायव्ययविशोधितम् । प्रासादं कारयेत्तत्र गृहं वै शुभलक्षणम् ॥ २५ ॥ शुकनासं च तस्याने कारयेदू विधिपूर्वकम् । शुकाने मण्डपं कुर्यात् सुरूपं लक्षणान्वितम् ॥ २६ ॥ इति सूत्रसन्तानगुणीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
जीर्णप्रासादलक्षणाधिकारो नामैकादशोत्तरशततम सूत्रम् ॥