________________
(११२) प्रासाददेशानुक्रमो नाम बादशोत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच---
अथातः संप्रवक्ष्यामि प्रासादानां तु लक्षणम् । विविधैः कर्मसूत्रैश्च कथितं यत्समासतः ॥१॥ मागरा द्राविडाश्चैव पराटकाश्च मिश्रकाः। लतिनाश्चैवसान्धारा विमाना भूमिजास्तथा ॥२॥ एते चाष्टान्वये शस्ताः शुद्धच्छन्दाः प्रकीर्तिताः । देशजातिकुलस्थानवर्णभेदैस्तथापरे ॥३॥ जातयोऽष्टौ प्रवर्तन्ते गङ्गातीरेषु सर्वदा।। अहिराजेषु सान्धारो नागरश्च प्रशस्यते ॥ ४॥ गौडबङ्गकामरूपे सान्भारो लसिनस्तथा । तुरकोडहालेषु ? गङ्गोदधौ विमानकः ॥५॥ चौलदेशे महानीले श्रीनीले पर्वते तथा । मल्यकलिङ्गकर्णाटे कान्यकुब्जनिवासके ॥६॥ वैराज्येषु विराटे च कोंकणे दक्षिणापथे। नागरा द्राविडाश्छन्दा वराष्ट्रा भूमिजास्तथा ॥ ७ ॥ लतिनाश्चैव सान्धारा मिश्नकाश्च विमानकाः । अष्टच्छन्दास्तथा चैते प्रालादा: परिकीर्तिताः ॥८॥ अयन्त्यां मालवे देशे काभ्यां कालंजरे तथा । अन्तर्वेद्यां च मगधे मथुरायां हिमाश्रये ॥९॥ दण्डकारण्यसाह्यान्द्योश्चत्वार छन्दका इमे। लतिना नागराश्चैव सान्धारा भूमिजास्तथा ॥१०॥ सिन्धौ च खुरषाणे च तेजो गक्षणकादिषु ।। सवमोहनमादियुक्ते ? पश्चिमे पार्श्वमण्डले ॥ ११ ॥ सौराष्ट्र गुजरे देशे काश्मीरे च स्वयंभरे । ----------------॥१२॥ वहिरावत्योमवन्दने - - - - - - - - । यादि सृष्टयो ----------- ॥१३॥ प्रासादाः स्त्रीपुरुषाणां सूर्ये कुर्यामपुंसकान् ।
-
-
--
------॥१४॥