________________
(१११) जीर्णप्रासादलक्षणमेकादशोत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
अथात: संप्रवक्ष्यामि जीर्णप्रासादलक्षणम् । पतिते वा प्रनष्टाने क्रिया त्वेवंविधोत्तमा ॥१॥ सुमुहूर्त दिने शुद्ध लग्ने चन्द्रबलोत्तमे। चन्द्रताराबले चैव योगे चामृतसम्भवे ॥२॥ अटवर्गस्ततोभेव्यां स्वगोत्रादिगोत्रसंकुलम् । पूजनीया समस्तेदं दयत्याष्टप्राणवे? ॥३॥ आचार्यः शिल्पिनां पूज्यो वस्त्रालङ्कारसंयुतैः । तैश्चापि सर्वयुक्तैश्च स गच्छेदू देवसंकुलम् ॥ ४ ॥ देवपूजां ततः कृत्वा क्षेत्रपालादिसंयुताम् । दिक्पालेभ्यो बलिं दद्यादू वास्तुदेवेभ्य एव च ॥ ५॥ जलदेवान् स्थलदेवानूलस्थांस्तलवासिनः । पूजा बलि समाप्यैतान् प्रणिपत्य क्षमापयेत् ॥ ६॥ अपतितानि सस्वानि पातयेञ्च क्रियादिकः । स्वर्णमयं गजं कुर्याद् वृषभं वा यथोचितम् ॥७॥ अथरूप्यमयं वापि गजं वा वृषभं तथा। पातयेद् गजदन्तावृषशङ्गरथापि वा ॥८॥ ततोऽनुक्षाल्यमानेऽपि वास्तुस्थानं न चालयेत् । हस्ववृधी न कर्तव्ये कृते दोषो महाभयम् ॥९॥ पूर्ववास्तु स्थितं त्यक्त्वा तदुपर्यन्यवास्तुकम्।। पूर्व चेद् विध्यते वास्तु मृत्युः कारावरादिषु ॥ १०॥ उद्धरेद्वा तथा द्रव्यं वास्तुस्थानं न चालयेत् । उद्धरेच्चाहरेद् द्रव्यं लभते परमं पदम् ॥ ११॥ पूर्वमानं प्रमाणं च कारयेद् विधिपूर्वकम् । तद्पं तत्प्रमाणं च पूर्वसूत्रं न चालयेत् ॥ १२ ॥ चलिते चालिते वापि दिग्मूढे स्थानवास्तुनि । होने तथाधिके चैव पदभुक्तिविनाशने ॥ १३ ॥ निरन्तरा यदि स्तम्भा महामर्मनिपीडिताः। अशुद्धाः विपरीताश्च शिल्पदोषैश्च दूषिताः ॥ १४ ॥