________________
अपराजितपृच्छा तत्तत्स्थानेषु ये देवाः स्थापिताश्च महत्तरैः। तत्सानिध्यं सर्वकाले व्यङ्गितानपि न त्यजेत् ॥ १६ ।। यद्यस्य स्थापितं वास्तु तत्तथैव हि कारयेत् । अन्यङ्गं चालितं वास्तु दारुणं कुरुते भयम् ॥ १७॥ अथ चेत् चाल्यते तत्तु जीर्ण व्यङ्गं च दूषितम् । आचार्यैः शिल्पिभिः प्राः शास्त्रदृष्टया समुद्धरेत् ॥ १८॥ स्वस्थाने संस्थितं वास्तु व्यङ्गदोषैश्च वर्जितम् । तत्रैव चालयेत्प्राशो बाह्यवास्तुनि कारयेत् ॥ १९ ॥ पूर्ववास्तुस्थितिं त्यक्त्वा चान्यवास्तु तथोपरि । विनश्यत्येव तद्वास्तु मृत्युः कारावरादिषु ॥ २०॥ वास्तुद्रव्ये यदाहीनं दारुकर्मणि वा तथा । समुद्धरेच तत्प्राज्ञो वास्तु द्रव्य विशेषतः ॥ २१ ॥ उद्धरेञ्च तथा दिव्यं वास्तुस्थानं न चालयेत् । स्वस्थाने तुद्धते वास्तौ स्वलोकं लभते सुखात् ।। २२॥ यानि खण्डितदग्धानि विशीर्णस्फुटितानि च । तेषां न मन्त्रसंस्कारो गतासुस्तत्र देवता ॥ २३ ॥ वास्तुवेधे स्थिता देवी पद्मिनी नाम राक्षसी । पीडा पुत्रकलत्राणां वास्तुविद्भिरुदाहृता ॥ २४ ॥ मण्डलं जालकं चैव कीलकं सुषिरं तथा। छिद्रं सन्धिश्च काराश्च महादोषा इति स्मृताः ॥ २५ ॥ मृत्काष्ठे शैलजं कुर्याच्छलजे धातुजं तथा। धातुजे रत्नजं कुर्यादुत्तमोत्तमतो न्यसेत् ॥ २६ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
जीर्णवास्तुनिर्णयाधिकारो नाम नवोत्तरशततमं सूत्रम् ॥