________________
(१०९) प्रासादजीर्णवास्तुनिर्णयो नाम नवोत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
अल्पलेपं बहुलेपं समसन्धि शिरोगुरुः । अप्रतिष्ठं पादहीनं तच्च वास्तु विनश्यति ॥ १ ॥ सशल्यं पादहीनं चोकद्रव्येण पूरितम् । अचिरात्तच्चालयेद्वा तूर्ध्वगं तद्विनश्यति ॥ २ ॥ एकवास्तुचितं द्रव्यमन्यवास्तुनि वेशयेत् । प्रासादे न भवेत्पूजा गृहे व न वसेत्पतिः ॥ ३ ॥ अचाल्यं चालयेद्वास्तु प्रासादे शिवब्रह्मणोः । वंशच्छेदो भवेत्तस्य ह्यचिरेणैव शाश्वतः ॥ ४ ॥ पूर्वस्थितं परित्यज्य चान्यद् वास्तु तथोपरि । पूर्वत्यागानुदोषैश्च कर्ता तु नरकं व्रजेत् ॥ ५ ॥ स्वस्थानसंस्थितं यच्च विप्रवास्तुशिवालयम् । न चालयेत् सर्वदेशे चलिते राष्ट्रविभ्रमः ॥ ६॥ मरकतं बाणलिङ्गं मुक्ताजं रत्नजं तथा । अव्यक्त व्यक्तकं प्रोक्तं प्रासादे कारयेद् बुधः ॥ ७ ॥ बाणलिङ्गे वृषं कुर्यात् स्वयम्भूमुखमृण्मये । सहस्रलिङ्गे च शतलिङ्गे न्यूनाधिकं विदुः ॥ ८ ॥ परिधिश्च समो दीर्घ उच्छ्रये पीटसन्निभः । पञ्चभागोन्नतश्चैवं सप्तभागायतो वृष : ॥ ९ ॥ पादौ जानु कटिर्यावदचदृष्टिश्च वाहने । वृषदृष्टिर्विष्णुभागे घटितेषु च शस्त्रतः ॥ १० ॥ अर्चा श्रेष्ठा तथा लिङ्गं निलयांशेषु सर्वतः । वृषं न्यूनाधिकं वाणे रत्नजे च स्वयंभुवि ॥ ११ ॥ विषमपदस्तुलास्तम्भं पादभित्तिनकम् ? | क्रमं पदवलितं यच्च न शुभं कर्तृकारके ॥ १२ ॥ खण्डितं स्फुटितं भग्नं चलितं चालितं तथा । पतितं पातितं जीर्णमग्मिलीढं समुद्धरेत् ॥ १३ ॥ प्रासादे चाहीने तु भोग्यस्थानं न विद्यते । अप्रशस्तं विना न्यासैः स्त्रीपुंसां च सुखं यथा ॥ १४ ॥ देवो भ्रष्टस्तथा भग्नो विषमे च तटे स्थितः । यथाप्रतिष्ठितश्चार्यैस्तत्र दोषो न विद्यते ॥ १५ ॥