________________
अपराजितपृच्छा घटिते शतहस्तेषु याणे पञ्चशतेषु च। स्वभुवि सहनहस्ते शिवतीर्थोदकं स्मृतम् ॥ १६ ॥ देवस्य दक्षिणे गत्वा पुण्यं शैवार्चनादिकम् । गत्वापरे दशगुणं सौम्ये दशगुणं तथा ॥ १७ ॥ आग्नेय्यां तेजसो वृद्धिनैर्ऋत्ये विघ्ननाशनम् । वायव्ये श्रीश्चपुण्यं च त्वीशाने सर्वकामना ॥ १८॥ धर्मार्थकाममोक्षाणां सर्वविघ्नविनाशकम् । सर्वतीर्थादिपुण्यं च स्नात्वा देवाग्रतो भयेत् ॥ १९ ॥ घटिते जगतीमध्ये बाणे गर्भगृहे भवेत् । स्वभुवि पीठिकास्थाने चण्डश्चले न विद्यते ॥ २०॥ एका चण्डया रवेः सप्त तिम्रो दद्याद्विनायके । चतस्रो विष्णुदेवस्य शिवस्यार्धा प्रदक्षिणा ॥ २१॥ जैने च ह्यग्रसंस्थाने स्तोत्रमन्त्रादिनार्चनम् । न देयं वर्तने पृष्ठं सन्मुखे द्वारलङ्चनम् ॥ २२ ॥ स्नानोदकं गूढमागें तदा कुर्यात्प्रदक्षिणम् । दृष्टं न लङ्घयेत्स्नानं हन्ति पुण्यं पुराकृतम् ॥ २३॥ पूर्वापरे यदा द्वार प्रणालं चोत्तरे शुभम् । प्रशस्तं शिवलिङ्गानामिति शास्त्रार्थनिश्चयः ॥२४॥ अर्चानां मुखपूर्वाणां प्रणालं वामतः शुभम् । उतरास्या न विज्ञेया अारूपेण देवताः ॥२५॥ जैनमुक्ताः समस्ताश्च याम्योत्तरक्रमैः स्थिताः । वामदक्षिणयोगेन कर्तव्यं सर्वकामदम् ॥ २६ ॥ वामे वामं प्रकुर्वीत दक्षिणे दक्षिगं शुभम् । मण्डपादिषु प्रतिमा येषु युक्त्या विधीयते ॥ २७ ॥ जगतीकणे ये देवास्तान कुर्याज्जगतीस्थितान् । पृष्ठादग्रोभयोः पार्चे शास्त्रार्थयुक्तमुत्तमम् ॥२८॥ ईशानमाश्रयेत् किञ्चिच्छिवलिङ्गेषु कामदम् । ईशाने मुक्तिदं प्रोक्तं भुक्तिदं चोत्तयाश्रितम् ॥ २९ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितष्ठायां
प्रासादसंस्थानोन्मानलक्षणाधिकारो नामाष्टोत्तरशततम सूत्रम् ।।
३५ अ.