________________
(१०८) प्रासादसंस्थानोन्मानलक्षणमष्टोत्तरशततमं सूत्रम् ॥
-
-
विश्वकर्मोवाच
अथातः संप्रवक्ष्यामि प्रासादानां तु लक्षणम् । संस्थानोन्मानसूत्रं च वास्तुविन्यासपूर्वकम् ॥ १ ॥ एकपदादिकं वास्तु यावत् पदसहस्रकम् । प्रासादे नवे जीर्णे तु वास्तूद्धारस्तथा भवेत् ॥ २॥ अग्रतः पृष्ठतश्चैव वामदक्षिणतोऽपि वा। प्रासादं कारयेश्चान्यं नाभिवेधविवर्जितम् ॥ ३॥ लिङ्गाने च न कर्तव्या ह्यारूपेण देवता । प्रभा नष्टा न भोगाय यथा तारा दिवाकरे ॥ ४॥ शिवस्याने शिवं कुर्याद् ब्रह्माणं ब्रह्मणस्तथा । विष्णोरग्रे भवेद्विष्णु ने जैनं रवेरविम् ॥ ५ ॥ चण्डिकाने भवेन्माता यक्षः क्षेत्रादिभैरवः । शेयास्तेषामभिमुखे ये येषां च हितैषिणः ॥ ६॥ ब्रह्मविष्णोरेकनाभिर्जिनैदोषो न विद्यते। शिवाने चान्यदेवानां दृष्टिवेधे महद्भयम् ॥ ७ ॥ ब्रह्मा विष्णुः शिवः सूर्यश्चन्द्रः स्कन्दो हुताशनः । दिक्पाला लोकपालाश्च ग्रहा मातृगणस्तथा ॥ ८॥ एते शिवाश्रये स्थाप्या दृष्टिवेधविवर्जिताः।
रेऽपि नैव कर्तव्या शिवदृष्टिषु सर्वदा ॥ ९॥ ग्रामे राष्ट्रे पुरे तीर्थ नगरे तापसाधये । दृष्टिघातहतं यश्च न पुनस्तत् प्ररोहति ॥ १० ॥ जिनेन्द्रस्य तथा यक्षा देवाश्च जिनमातृकाः । आश्रयन्ति जिनं सर्वे ये चोक्ता जिनशासने ॥ ११ ॥ वर्जयेदर्हतः पृष्ठमग्रं तु शिवसूर्ययोः। पार्श्व तु ब्रह्मविष्ण्वोश्च चण्डयाः सर्वत्र वर्जयेत् ॥ १२ ॥ प्रसिद्धराजमार्गाच्च प्राकारान्तरतोऽपि वा। स्थापयेश्चान्यदेवांश्च बहिर्वास्तुकवर्जितम् ॥ १३ ॥ दिशां दोषैः परित्यक्ताः शिवसूर्यजिनादयः । उभयोरन्तरे समाश्रितं यत्तन्न निन्दितम् ॥ १४॥ घाट्ये वै शतहस्तं स्याद् बाणे चैव शतद्वयम् । त्रिशतं स्वयम्भूलिले वास्त्वेवं पुरमध्यगम् ॥ १५ ॥