________________
अपराजितपृच्छा नवहस्तान्तकं लिङ्गमकहस्तादितः परम् । एषां मध्ये तु कर्तव्यं घटितं शास्त्रनिश्चयः ॥ १५ ॥ अङ्गष्ठपर्वादिकार्चा पर्यन्तं नवहस्ततः। प्रासादे प्रतिमा कार्या द्वारमानविधिकमात् ॥ १६ ॥ महायास्तु विन्यास: कर्तव्यस्तु यथाविधि । दशादिहस्ततस्त्वर्चा प्रासादेन विना शुभा ॥ १७ ॥ पञ्चचत्वारिंशद्धस्ता हस्तान्तरे षट्त्रिंशतिः। महत्यः प्रतिमाः प्रोक्ताः कर्तव्याः सर्वकामदाः ॥ १८ ॥ पकहस्ताच्छतान्तिं - - षष्ठ्यधिकं शतम् । द्वारमानमिति प्रोक्तं सर्वकामफलप्रदम् ॥ १९ ॥ प्रतोल्या द्वारमुत्सेधे हस्ताः पञ्चदशोत्तमम् । त्रयोदश तथा मध्यमेकादश कनिष्टकम् ॥ २० ॥ पुरार्धं भवति ग्रामो ग्रामार्धं चैव खेटकम् ।
खेटकाधं भवेत्कूटः कूटार्ध चैव कटम् ॥ २१ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
पुरप्रासादगृहप्रमाणाधिकारो नाम सप्तोत्तरशततम सूत्रम् ॥