________________
(१०७) पुरप्रासादगृहप्रमाणं सप्तोत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
प्रमाणानि प्रवक्ष्यामि पुरप्रासादसद्मनाम् । पकैकस्य पृथग्मानं यथाविधि तवाधुना ॥ १॥ एकहस्तादिप्रासादा यावत्पश्चाशद्धस्तकम् । हस्तान्तरे ततो भेदस्तदर्धे च न संशयः ॥२॥ हस्तपादे व्यङ्गुले वा कुर्याश्च द्वयले क्रमात् । योजयेद् विविधांश्छन्दान् प्रमाणं तत्र शास्त्रतः॥३॥ गृहं चैव तु हस्ताधं यावद् द्वात्रिंशद्धस्तकम् । अष्टहस्ताद् दशवृद्धया यावदष्टोत्तरं शतम् ॥ ४॥ षड्जातिसंभवाः कार्याश्छन्दोभेदैरनेकधा। प्रयुक्ता राजवेश्माद्याः कर्तव्याः सर्वकामदाः॥५॥ माडमोडशुद्धशृङ्गतुङ्गारसिंहकाभिधाः । प्रासादाश्च नरेन्द्राणामन्येषां हर्म्यमुच्यते ॥ ६ ॥ कनिष्ठं चतुःसहस्रैरष्टसहस्त्रैर्मध्यमम् । ज्येष्ठं द्वयष्टसहस्त्रैश्च त्रिधा राजपुरं मतम् ॥ ७ ॥ साष्टमांशं सपाद वा सार्धं वा व्यासमायतम् । पृथगेकैकमायामे चतुरधीकृतं शुभम् ॥ ८॥ कनिष्ठं सहस्रहस्तं मध्यं सार्धसहस्रकम् । ज्येष्ठं द्विसहस्रहस्तं त्रिधा ब्रह्मपुरं मतम् ॥ ९ ॥ कनिष्ठं सहस्रहस्तैसिहौस्तु मध्यमम् । ज्येष्ठं चतुजयेष्ठो मध्याधमा च शतद्वयी ? ॥ १० ॥ ज्येष्ठं चतुःशतकरैर्मध्यमं द्विशतैस्तथा । कनिष्ठं शतमेकं च विधा शुद्रपुरं मतम् ॥ ११ ॥
- - - - - - - - - - - - - - - - ॥ १२ ॥ त्रिगुणा चोत्तमाख्याता मध्यमा च चतुर्गुणा । कनिष्ठा पञ्चगुणोक्ता प्रासादाजगती मता ॥ १३ ॥ प्रासादोच्छ्यविस्तारा सीमान्ते वामदक्षिणे । यथा भेदं यथा लिङ्गं जगती प्रासाद तद्विधम् ॥ १४ ॥