________________
(११०) प्रासादनवजीर्णवास्तुकं दशोत्तरशततमं सूत्रम् ।।
विश्वकर्मोवाच
अभेद्यपतितं भेद्यं नाच गेहं सुरालयम् । शस्ताकारमिदं प्रोक्तं मूर्तास्तास्तत्र देवताः ॥ १॥ ब्रह्मविष्णुरवीनां च शंभोः कार्या यदृच्छया। गिरिजाया जिनादीनां मन्वन्तरभुवां तथा ॥२॥ पतेषां च सुराणां च प्रासादा भिन्नवर्जिताः। प्रासादमठवेश्मान्यभिन्नानि शुभदानि हि ॥३॥ मूषाभिर्जालकैरैर्गों यत्र न भिद्यते। अभिमं कथ्यते तच्च प्रासादो वेश्म वा मठः ॥ ४॥ कुक्षिद्वारैस्तथा जालैर्मूषा रश्मिप्रभेदिता। भिन्नस्तत्र स विशेय आलयः सिद्धिकामदः ॥ ५॥ पुरतः पृष्ठतो द्वारावुभौ कुक्ष्योः प्रभेदितम् । मारुतैः स्पृश्यते यत्र भिन्नं नाम तदुच्यते ॥६॥ व्यक्तान्यक्तं लयं कुर्यादभिन्ना भिन्नमूर्तयोः । मूर्तिलक्षण स्वामी प्रासादं तस्य तादृशम् ॥ ७ ॥ दिग्मूढो नष्छन्दश्च द्यायहीनः शिरोगुरुः । शेया दोषास्तु चत्वारः प्रासादाः कर्मदारुणाः ॥ ८॥ पूर्वोत्तरं तु दिग्मूढं मूढ़ पश्चिमदक्षिणम् । मूदामूदं च तेषां स्याद्यत्र तीर्थ समाहितम् ।।९।। सिद्धायतनतीर्थेषु नदीनां सङ्गमेषु च । स्वयंभूबाणलिङ्गेषु तस्य दोषो न विद्यते ॥ १० ॥ व्यक्तं तु मृण्मयं चाल्यं त्रिहस्तान्तं तु शैलजम् । दारुजं पुरुषार्धं तु तत ऊर्च न चालयेत्॥ ११ ॥ पातनाद व्याधिदातारमा महादुःखाय जायते । सप्तोत्सययात्राश्च तेषां रूपाणि कारयेत् ॥ १२ ॥ स्तम्भवेधैर्यथावास्तु वास्तुवेधैस्तथा सुराः । देववेधे भवेन्मृत्युः शिल्पिकारावरादिषु ॥ १३ ॥ एको वा बहुरूपश्च ब्रह्मणः शिवसूर्ययोः । स्वके स्वके वै स्थायाः प्रासादे भिन्नवर्जिते ॥ १४ ॥ भिन्नाश्चतुर्विधा या अष्टधा मिश्रका मताः। मिश्रकाः पूजितास्तत्र भिन्ना वै दोषकारकाः ॥ १५ ॥