________________
२६७
अपराजितपृच्छा व्यन्तरस्थितदेवैस्तु फांसनाकारिणो मताः। इन्द्रलोकसमुद्भूता रथाश्च विविधा मताः ॥ १६ ॥ कमयुक्त्या विधातव्या अनेकाण्डजसंकुलाः। सर्वासामथ जातीनां रूपालङ्कारमुच्यते ॥ १७ ॥ आदौ तु नागरान् वक्ष्ये प्रासादान् सर्वकामदान् । अनेकाण्डकसम्युक्तान् क्रमयुक्तिविधींस्तथा ॥ १८॥ उत्सेधे नागराः शृङ्गैरनेकाकाररूपिणः । शृङ्गोरःशृङ्गप्रत्यङ्गतवङ्गादिकभूषिताः ॥ १९ ॥ एकद्वित्रिक्रमोन्नत्या रेखागर्भसमुद्भवाः। दोषवहाश्च संकीर्णा विपुला धन्यसौख्यदाः ॥२०॥ त्रिमूर्तयस्तु भद्रान्ते रथिकाः सर्वकामदाः । शुकनासे च संघाटा भद्रेत्वेकैकसंयुताः ॥२१॥ आमलसारान्तस्थितकलश: सुविभूषिताः। पताकाध्वजयुक्ताश्च नागरा: सर्वकामदाः ॥ २२॥ पीठोपपीठजवाभिर्मेखलाकूटच्छाद्यकैः । दलभक्त्या च युक्ताश्च कर्तव्याः सर्वकामदाः ॥२३॥ मण्डपै रूपशोभाढयैर्वितानैर्बहुभिर्युताः। छाद्यघण्टाकूटयुक्ता नानासंवरणास्तथा ॥ २४ ॥ नागरच्छन्दजा एवं प्रासादाः सर्वकामदाः । वल्लभाः सर्वदेवानां शिवस्यापि विशेषतः ॥ २५ ॥
इति नागरप्रासादलक्षणाधिकारः॥ पीठोचे कर्णरेखाश्च भूमिका: क्रमसंस्थिताः । विभक्तिदलनापूर्णा लताशृङ्गक्रमोद्भवाः ॥२६॥ मेषमकरकूटपैः कण्टकैरावृताः शुभाः । वेदीघण्टानासिकाद्याः द्राविडाः शुभलक्षणाः ॥ २७ ॥
इति द्राविडाः॥ या त्वेका नागरा रेखा शृङ्गे शिखरवर्जिताः।। लतिनास्तु समाख्याता रुचकादिसमुद्भवाः ॥२८॥
इति लतिनाः। यत्र वंशोद्भवाः कूटा हस्ववृद्धिक्रमस्थिताः । दलविभक्त्या त्वङ्गैश्च भूमिजाः पुरभूषणाः ॥ २९ ॥
इति भूमिजाः॥