________________
(१०६) प्रासादचतुर्दशजातिलक्षणाकारो नाम षड्डत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
विमानाश्च तथा पञ्च ब्रह्मणा भाषिताः स्वयम् । मनोह्लादकरा ह्येते काम स्वच्छन्दचारिणः ॥ १॥ ' वैराज्यः प्रथमो नाम पुष्पकश्च द्वितीयकः । कैलासो मणिकश्वाथ तथा चैव त्रिविष्टपः ॥२॥ प्रयुक्ता विविधाश्छन्दाः सूत्रमागैरनेकधा । वैराज्यकुलसंपन्नाः सर्वे प्रासादसंशकाः ॥ ३ ॥ प्रासादास्तु समस्ता वै सन्ति वैराज्यसंभवाः । वैराज्यजन्यप्रासादा इषुभेदोद्भवास्ततः ॥ ४॥ इषुभेदसमुत्पन्नाः प्रासादाः सर्वकामदाः । सौवर्णे राजनैश्चैव देवानां सततं प्रियाः ॥५॥ मणिमुक्ताप्रवालाढ्यैर्भूषणैः सुविभूषिताः। रीतिकाताम्ररङ्गश्च पिशाचोरगरक्षसाम् ॥ ६ ॥ देवलोके भवन्त्येते कामं स्वच्छन्दचारिणः। पातालेऽपि विनिर्दिष्टाः पाषाणैः स्फटिकैस्तथा ॥ ७ ॥ इष्टकाकाष्ठपाषाणैर्मृत्युलोके त्वनिन्दिताः। नित्यं भवन्ति सुखदाः कर्तृकावरयोस्तथा ॥ ८॥ नगराणां भूषणार्थं देवानामालयाय च । लोकानां धर्महतोश्च क्रीडार्थ सुरयोषिताम् ॥९॥ आलयः सर्वभूतानां विजयाय जितात्मनाम् । धर्मार्थकाममोक्षाणां प्राप्तिहेतुर्मनस्विनाम् ॥ १०॥ यत्र येषां कृता पूजा तत्र तन्नामकास्तु ते । प्रासादानां समस्तानां कथयिष्याम्यनुक्रमम् ॥ ११॥ सुरैस्तु नागरा: ख्याता द्राविडा दानवेन्द्रकैः । लतिनाश्चैव गन्धर्वैर्यक्षेश्चापि विमानजाः ॥ १२ ॥ विद्याधरैमिश्रकाश्च व्यन्तरैश्च वराटकाः । सान्धाराश्चारगैः ख्याता नरेन्द्र मिजास्तथा ॥ १३॥ विमाननागरच्छन्दा: सूर्यलोकसमुद्भवाः । नक्षत्राधिपलोकोक्ताश्छन्दा विमानपुष्पकाः ॥ १४॥ पार्वतीसंभवा: सेना वलभ्याकारसंस्थिताः । हरसिद्धयादिदेवीभिः कार्याः सिंहावलोकनाः ॥ १५ ।।