________________
चतुर्दशप्रासादोत्पत्तिमहोत्सवो नाम पञ्चोत्तरशततमं सूत्रम् ॥
विविधाभिः पताकाभिर्ध्वजैश्च तोरणैस्तथा । कुङ्कुमद्रवसंकीर्णैः कुङ्कुमद्रवसिञ्चितैः ॥ ४६ ॥ सद्धूपामोदबहुलै: कर्पूरागरुकैस्तथा ।
भेदैः समुत्पन्नाः सर्वे प्रासादनायकाः ॥ ४७ ॥ सोमेश्वरस्तदोवाच तथास्तु ब्रह्मणोदितम् । ब्रह्मोवाच भवाल्लब्धाः प्रासादा विविधा मया ॥ ४८ ॥ वैराज्यपुष्पकैलासा: मणिकाश्च त्रिविष्टपाः । इषुभेदैः : समुत्पन्नाः प्रासादाः सर्वकामदाः ॥ ४९ ॥ अष्टाशीत्युत्तराण्येव शतान्यष्टादशैव च ।
X
X
X
× 11 40 11
नवनाट्यरसोपेतैः र्धृतारात्रिक कैस्तथा । मृदङ्गवंशता लाद्यैर्गीतनृत्यादिभिस्तथा ॥ ५१ ॥ षड्रसाहारगौरैः पक्वान्नैश्च नैकधा । चतुरशीत्यत्र साकारि फेनाकुलीकमेकसंकुला ? ॥ ५२ ॥ महेषु पञ्चदशसु सर्वमारात्रिकादिकम् । प्रथितं त्रिषु लोकेषु सुरासुरनरोरगैः ॥ ५३ ॥ स्तोत्रमन्त्रार्चने भक्त्या प्रणिपत्य जगद्गुरुम् । जपदीक्षा भवेत् सा हि दण्डीदारुवने तथा ॥ ५४ ॥ सोत्साहं यः पठेद् भक्त्या भक्तवत्सलसंस्तुतिम् । मुक्तश्च सर्वपापेभ्यः शिवलोकं स गच्छति ॥ ५५ ॥ अनुभ्यां च चतुर्दश्यां शिवस्तोत्रं जितेन्द्रियः । यः पठेश्च तथा भक्त्या ह्येकचित्तः समाहितः ॥ ५६ ॥ यागेश्वरस्य यात्रायाः पुण्यं प्राप्नोति मानवः । धर्मार्थकाममोक्षाणां संप्राप्तिश्च तथेप्सिता ॥ ५७ ॥ कृतघ्नश्च तथा गोध्नो ब्रह्महा गुरुतल्पगः । दुष्टकर्मा दुराचारः पितॄहा मातृहा तथा ॥ ५८ ॥ मुच्यते सर्वपापेभ्यो दृष्ट्वा यागेश्वरोत्सवम् । कल्पकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ॥ ५९ ॥ श्रुत्वा यागेश्वरोत्साहं मुच्यते सर्वपातकैः ।
ये चादग्धा मृतास्तेषां मोक्षः स्यात्पञ्चभूततः ॥ ६० ॥
वाचमानो महोत्साहः श्राद्धं कृत्वा स्वयं गृहे ।
एकोत्तरसहस्रं च कुल..
॥
X
X
............
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचार्योक्ता पराजित पृच्छायां चतुर्दशप्रासादोत्पत्तिमहोत्सवाधिकारो नाम पञ्चोत्तरशततमं सूत्रम् ॥
२६५