________________
२६४
अपराजितपृच्छा यस्माद् वेदाङ्गसंभूतिर्देवदेवश्चतुर्थकः । अतितेजः पुञ्जकाढ्यग्रहयुक्तो दिवाकरः ॥ ३०॥ कृता महोत्सवास्तेन पूजाश्चैव माहान्तकाः । विमाननागराच्छन्दाः प्रासादेषु समीरिताः ॥ ३१ ॥ नक्षत्राधीश्वरश्चैवं नक्षत्रैर्बहुभिर्वृतः । विधुस्तेजोऽमृतमय: संसाराधारकारणम् ॥ ३२॥ द्विजराजस्तेन कृता पूजा यागेश्वरस्य च । विमानपुष्पकाख्याताः प्रासादाः सर्वकामदाः ॥ ३३ ॥ गौर्याद्याभिश्च देवीभिः कृताः पूजा महोत्सवाः । पुष्टप्राकारसंकीर्णा रत्नज्योतिर्महार्चिषः ॥ ३४ ॥ कृता वलभिकाकाराः प्रासादाः त्यभिधानकाः । आयताश्चतुरधाश्च वृत्ता वृत्तायतास्तथा ॥ ३५ ॥ महापुण्योदयस्तेभ्यस्तेजःसौभाग्यवर्द्धनम् । जन्मजन्मनि भूपालाः पुष्पबाणपरायणाः ॥ ३६॥
इति वलभ्युत्पत्तिः ॥ हरसियादयो देव्यः समस्ताः समयेषु च । ताभिर्महोत्सवाः पूजाः कृताश्चैव माहान्तकाः ॥ ३७॥ सिंहावलोकनाः सर्वे प्रासादा भुवनोत्तमाः।
इति सिंहालोकनोत्पत्तिः । दारुकर्मोद्भवाः सिंहालोकना दारुजाः समे ॥ ३८ ॥
इति दारुजोत्पत्तिः ॥ पिशाचैश्चैव सर्वेश्च रक्ष:प्रेतात्मकैस्तथा । कृत्वा महोत्सवं पूजाः कृता यागेश्वरस्य तु ॥ ३९ ॥ न ते स्त्रीलिङ्गत: कार्याः पुंलिङ्गास्तु विवर्जिताः । नपुंसकाः फांसनाख्याः प्रासादाश्च भवन्ति च ॥ ४०॥
इति फांसनाकारोत्पत्तिः ॥ इमे चतुर्दश प्राप्ताः समस्तैश्च गणेश्वरैः।। स्वर्गपातालाधिदेवैः सुरासुरनरारेगैः ॥४१॥ दिक्पालेलोकपालेश्च देवीभिर्वसुभिस्तथा । ऋषिवृद्धस्तथा चैव भूपालाद्यैः समस्तकैः ॥ ४२ ॥ इन्द्रलोकात् समायात: सुरराजः स्वयंभुवा। कृता तत्र महापूजा पुरुषत्रितयस्य च ॥४३॥ वामे विष्णु देवदेवं ब्रह्माणं दक्षिणे तथा । मध्ये यागेश्वरं देवं त्रैलोक्येशं जगद्गुरुम् ॥४४॥ गीतनत्यैश्च वादित्रैः प्रेक्षणीयैरनेकधा। लास्यहास्यै(दग्ध्यैस्ताण्डवाद्यैश्च नर्तनैः ॥ ४५ ॥