SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ २६३ चतुर्दशप्रासादोत्पत्तिमहोत्सवा नाम पञ्चात्तरशततम सूत्रम् ॥ यक्षमहोत्सवं कृत्वा विमानानां समुद्भवाः । विमानगरुडध्वजविजया गन्धमादनः ॥ १५ ॥ इमे विमाना: पञ्चैव कर्तव्याः शान्तिमिच्छता । पुष्पमालाधराकारा लताशङ्गोत्तमास्तथा ॥१६॥ त्रिचतुःपञ्च षट् सप्त शतान्येकैकतः पृथक् । पञ्चविंशतिः शतानि तत्सङ्ख्येत्थमुदाहृता ॥ १७ ॥ ___इति विमानोत्पत्तिः। उरगेन्द्रैः कृता पूजा तदर्थे तु प्रदक्षिणा । सान्धारास्तत्र संभूताः प्रासादा भ्रमसंयुताः ॥ १८॥ केसरी नन्दनश्चैव मन्दर: श्रीतरुस्तथा । इन्द्रनीलो रत्नकूटो गरुडश्चेति नामतः ॥ १९ ॥ द्वौ त्रयश्चैक: षट् त्रयः सप्त त्रितयमेव च। पञ्चविंशतिराख्याताः प्रासादाः पर्वतोपमाः ॥ २० ॥ शान्तिदा सर्वकालेषु पुरे राक्षां जनस्य च । देशशारिकथा नित्यं नित्यं कल्याणकारकाः ॥ २१ ॥ तद्भदैश्च समुत्पन्नाः शतार्धे पृथगेकतः। द्वादशैव शतान्येवं पञ्चाशदधिकानि च ॥ २२ ॥ इति सान्धारोत्पत्तिः ॥ विद्याधरैः पुनः पूजा कृता यागेश्वरस्य तु। मिश्रकाश्च समुत्पन्ना अनेकाकाररूपिणः ॥ २३ ॥ बहुवर्णैस्तथा पुष्पैः पूजां कृत्वा शिवस्य च । मिश्रका बहुरूपाढ्या नैकरत्नर्विभूषिताः ॥ २४ ॥ एकवर्णैर्बहुवर्णैः पूजाः पुष्पैरनेकधा । बहुपुण्यप्रदा: सर्वे शान्तिदाश्च पुर:पतेः ॥ २५॥ अष्टादशशतान्यङ्गमिश्रका द्विगुणास्ततः। भूपालैश्च महाराजैः कृताः पूजामहोत्सवाः ॥ २६ ॥ इति मिश्रकोत्पत्तिः॥ प्रासादानां व पतयो भूमिजा भूतिदानतः । निषधः कुमुदः स्वस्तिस्त्रयः पूज्या माहान्तकाः ॥ २७ ॥ चतुरश्रा वृत्तसंस्था अष्टशालास्ततः परम् । दिशः सप्त तथाष्टौ च भूमिजाश्च निधोदिताः ॥ २८॥ तदङ्गतः षट् शतानि पञ्चविंशतिभिः सह । x x x x x x x॥ २९॥ इति भूमिजोत्पत्तिः॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy