________________
(१०५) चतुर्दशप्रासादोत्पत्तिमहोत्सवो नाम पश्चोत्तरशततमं सूत्रम् ॥
पुनस्तु दानवेन्द्रेण कृताः पूजा महोत्सवाः । षष्या श्चि दशम्यन्ताः पञ्चपूजा महत्तमाः॥१॥ स्वस्तिका सर्वतोभद्रा वर्धमाना तृतीयका । सूत्र पद्मा महापद्मा द्राविडैः कर्मचर्चिताः॥२॥ द्राविडाख्ये च प्रासादे इषुभेदा: समीरिताः। एकद्वित्रिचतुःपञ्च शतान्येकैकश क्रमात् ॥ ३॥ एवं द्राविडनामान: प्रासादा विविधा मताः । सङ्ख्या सार्द्धसहस्रं तु पूर्वदेवैः कृता पुरा ॥ ४॥ शान्तिदाः सर्वकालेषु गोब्राह्मणहितावहाः । वल्लभाः सर्वदेवानां शिवस्यापि विशेषतः ॥५॥
इति द्राविडोत्पत्तिः॥ पुनः कृताश्च गन्धर्वैः पूजा: पञ्चमहोत्लवे । महोत्सवा देवसदृशोपमा क्षतपाते तद्भूत ? ॥ ६ ॥ रुचकश्च भवः पद्मो मलयो वज्रकस्तथा। वैराज्योपमकायाश्च हीषुभेदा: प्रकीर्तिताः ॥ ७ ॥ रुचकाद्याः षोडश वै चतुरधाः प्रकीर्तिताः । भवश्च विभवश्चैव चतुरश्रायतौ तथा ॥ ८॥ पद्मो मालाधरश्चैतौ वृत्तावेव तु कारयेत् । वृत्तायतौ तु कर्तव्यो मलयो मकरध्वजः ॥९॥ वज्रकः स्वस्तिकः शङ्कुरष्टाचाः परिकीर्तिताः। इषुभेदसमुत्पन्नाः प्रासादा लतिनास्तथा ॥ १० ॥ एकद्वाराश्च कर्तव्याः पुरशान्तिकरा: सदा । एते च जातिशुद्धाश्च लतिना; पञ्चविंशतिः ॥ ११ ॥
___इति लतिनोत्पत्तिः॥ वसुभिश्च कृताः पूजास्तथा पञ्च महोत्सवाः । तेषां नामानि युक्तिं च कथयामि यथाक्रमम् ॥ १२ ॥ वराटः पुष्पकश्चैव श्रीपुञ्जश्च तृतीयकः । सर्वतोभद्रसिंहौच वराटाः पञ्च कीर्तिताः ॥ १३ ॥ रत्नयोन्युद्भवाः सर्वे वास्तुवे देसमीरिताः । द्विद्वादशशतान्येवं प्रासादास्तु वराटकाः ॥१४॥
इति वराटोत्पत्तिः॥