________________
__ २६१
नागरप्रासादलक्षणं चतुरुत्तरशततम सूत्रम् ।। नाट्यरसोत्तमानन्दैः कौतुकैश्च त्वनेकशः । इत्यादिबहुभावैश्च अङ्गैरङ्गैर्महारसैः ॥ १६ ॥ नुतस्तुष्टो महादेवो भक्तिपूजास्तवादिकै। ब्रह्माद्यांश्च सुरान् सर्वान् भक्तियुक्तानुवाच ह ॥ १७ ॥ वरं ब्रहि च दास्यामि यञ्च ते मनसि स्थितम् ।
ददामि तुभ्यं भो ब्रह्मन् सुरार्थ वक्तुमर्हसि ॥ १८ ॥ ब्रह्मोवाच
यदि तुष्टोलि देवेश मुक्तिदं त्रिदशाधिप । यस्मिंश्च तव पूजा स्यात् प्रकुर्या तं शिवालयम् ॥ १९ ॥ भवत्प्रसादतुष्टी च पूज्याः प्रासादसंज्ञकाः। वैराज्यादिसमुत्पन्नाः सर्वे प्रासादसंशकाः ॥२०॥ इषुभेदात्मकं चैव सर्व प्रासादनायकम् । सोमेश्वर उवाचाथ तथाऽस्तु ब्रह्मणोदितम् ॥ २१ ॥ ब्रह्मोवाच भवाल्लब्धाः प्रासादा विविधा मया । वैराज्य: पुष्पकैलासौ मणिकश्च त्रिविष्टपः ॥ २२ ॥ इषुभेदसमुत्पन्नाः प्रासादाः सर्वकामदाः । अष्टाशीतिरन्यभेदा अष्टादशशतानि च ॥ २३ ॥ शतानि पञ्च प्रासादा अष्टाशीत्युत्तराणि वै । सर्वेषां मूलयोनिश्च वैराज्यो नाम नामतः ॥ २४ ॥ प्रोक्तं चायतछन्देषु पुष्पकाणां शतत्रयम् । शतानि पञ्च भेदाश्च वृत्तकैलाससंभवाः ॥ २५॥ वृत्तायते च मणिके भेदाः सार्धशतानि च । सार्धानि त्रिशतान्येवमाश्रे च त्रिविष्टपे ॥ २६ ॥ अधाशीत्युत्तराण्येव शतान्यप्रादशव च । ब्रह्मसृष्टास्तथा चैते आधवैराज्यसम्भवाः ॥ २७ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
नागरप्रासादलक्षणाधिकारो नाम चतुरुत्तरशततमं सूत्रम् ॥