________________
(१०४) नागरमासादलक्षणं चतुरुत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
ब्रह्मविष्ण्वादयो देवा कुर्वन्त्यायं महोत्सवम् । नन्दा भद्रा जया रिक्ता पूर्णा स्यात् पञ्चमी तथा ॥१॥ कृता महोत्सवाश्चैते ब्रह्माद्यैश्च सुरैरपि। अभिधानुक्रमं तेषां शृणु पूजां समाहितः ॥२॥ वैराज्यं पुष्पकं चैव कैलासं मणिपुष्पकम् । त्रिविष्टपं पञ्चमं च नन्दाद्याः क्रमयोगतः ॥ ३॥ वैराज्यं चतुरथं स्यादायतं पुष्पक तथा। वृत्तं वृत्तायतं चैव कैलासं मणिपुष्पकम् ॥ ४ ॥ त्रिविष्टपं तथाष्टाधं पञ्चपूजा महोत्सवाः। हेमरत्नमयैः स्तम्भैः शुष्कपादपच्छाद्यकैः ॥५॥ मुक्तालङ्कारखचितैर्वितानैर्दिव्यभूषणैः । स्फटिकैर्विविधैर्लक्ष रत्नश्च मणिवेदिभिः ॥ ६ ॥ सिंहकर्णैः सुसंयुक्तैर्निर्वृहाच्छाद्यकर्णिकैः ।। शिखरहेमरत्नाढ्यैः सिंहायकलशान्वितैः ॥ ७ ॥ गणा ?श्चादित्यसंकाशं मणिरत्नविभूषितम् । चतुर्दारसुशोभात्यमिलिकावलणैर्युतम् ॥ ८॥ जवायां रूपसंघाट्यं दिकपालेश्च समन्वितम् । त्रिसन्धिभद्रकाकारं पताकाध्वजशोभितम् ॥९॥ वैराज्यं श्वेतवर्ण च हेमरत्नविभूषितम् । पुष्पकं रत्नवर्ण च रतालङ्कारशोभितम् ॥ १० ॥ कैलासं हेमवर्ण च सर्वरत्नविभूषितम् । हरितं मणिपुष्पं च सर्वरत्नं त्रिविष्टपम् ॥ ११ ॥ पीठोपपीठजङ्घाश्च मेखलाकूटछाद्यकम् । शिखरं सिंहकर्णाढ्यं भूमिका रत्नभूषिता ॥ १२ ॥ जालव्यालकपोतालीसिंहकर्णसुच्छाधकम् । स्फटिकैमरत्नाढ्यैः सर्वलक्षणसंयुतैः ॥ १३ ॥ एष पञ्चोत्सवे यागो ध्यात्वा यागेश्वरं शिवम् । भक्तिपूजास्तवस्तोत्रैर्गीतैश्च विविधैस्तथा ॥ १४॥ मङ्गलैर्दिव्यवादित्रैः प्रेक्षणीयैरनेकधा। लास्यताण्डवनृत्यैश्च नाट्येशं च महोपमैः ॥१५॥