________________
त्रैलोक्यदीक्षा नाम ज्युत्तरशततमं सूत्रम् ।
देवकन्याश्च विविधा ऋषिनारीसमन्विताः । सहिता नृत्यमानाश्च मङ्गलैः कौतुकैस्तथा ॥ १६ ॥ त्रिसंगीतश्च विविधैः प्रेक्षणीयैर्गणेश्वरैः । गणाच किलकिलायन्ते प्रवल्गन्ति मुहुर्मुहुः ॥ १७ ॥ गृणन्ति तत्र वै दीक्षां सुरासुरनरोरगाः । यक्षगन्धर्वदेवाश्च तथा विद्याधरोत्तमाः ॥ १८ ॥ इदं च दीक्षितं सर्व जगत्स्थावरजंगमम् | दण्डीदारुव ने तत्र ज्ञानध्यानैश्व किं पुनः ॥ १९ ॥ तथैव च महाजाप्यैर्नियमैश्चाप्यनेकशः ।
॥ २० ॥
यदि यागेश्वरो दृशे दण्डीदारुवने शिवः । धर्मार्थकाममोक्षान् स सम्प्राप्नोति यथेप्सितान् ॥ २१ ॥ कृतघ्नश्चैव गोनश्च ब्रह्महा गुरुतल्पगः । दुष्टकर्मा दुराचारी मातृहा पितृहा तथा ॥ २२ ॥ मुच्यते सर्वपापेभ्यो दृष्ट्वा यागेश्वरं शिवम् । संसारभयभीतानां पापक्षयकरः शिवः ॥ २३ ॥ कल्पकोटिसहस्त्रैश्च यत्पापं समुपार्जितम् । दृष्ट्वा यागेश्वरं देवं तस्मात्पापात्प्रमुच्यते ॥ २४ ॥ पुंसां मृतानां चाकालेऽसंस्कृतानां जलाग्नितः । तत्र भूमावदग्धानां मोक्षः स्यात् पञ्चभूततः ॥ २५ ॥ दीक्षिताः सर्वदेवाश्च ब्रह्मविविन्द्रादयः । त्रयस्त्रिंशत्कोटयश्च देवताश्चैव दीक्षिताः ॥ २६॥ शुक्राद्याश्चासुराः सर्वे दीक्षिताः परमेश्वरैः । वासुक्याद्याः पन्नगाश्च दीक्षितास्तलवासिनः ॥ २७ ॥ यक्षाः सर्वे कुबेराद्या गन्धर्वास्तुस्वरादयः । विद्याधरा मन्मथाद्या देवा वै वासवादिकाः ॥ २८ ॥ क्षत्रियाः सूर्यवंशाद्याः सोमवंशप्रसूतयः । समस्ताचैव देव्यस्तु हरसिद्धयादिकास्तथा ॥ २९ ॥ पिशाचाश्च ततः प्रेता निशायां ये चरन्ति च ।
क्षमादिकं समस्तं च जगत्स्थावरजंगमम् ॥ ३० ॥ दशपञ्चोत्सवेष्वेवं स्तोत्रैर्मन्त्रैस्तथार्चनैः । प्रमथाद्याः पूजयन्ति ब्रह्मविष्ण्वादयस्तथा ॥ ३१ ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवन देवाचार्योक्ता पराजित पृच्छायां त्रैलोक्यदीक्षाधिकारो नाम त्र्युत्तरशततमं सूत्रम् ॥
२५९