________________
(१०३) त्रैलोक्यदीक्षा नाम त्र्युत्तरशततमं सूत्रम् ।
अत ऊचे प्रासादखण्डं भविष्यति ॥ अपराजित उवाच
प्रासादानां कथं तात चोत्पत्तिर्दिव्यसूत्रिणः। किमाकारजातिरूपा नागराश्छन्दकास्तथा ॥१॥ द्राविडा मिश्रकाः ख्याता विमाना भूमिजास्तथा । सान्धाराश्च वराटाश्च लतिनाश्चैवकामदाः॥२॥ बलभ्यः फांसनाकाराः सिंहालोकनदारुजाः। विमानं नागरच्छन्दे कुर्याद् विमानपुष्पकम् ॥३॥ भिन्नभिन्नतयोकानि गहाण्येवाभिधानतः ।
कस्यां जातौ कानि चैव ह्युत्पन्नानि ब्रवीहि मे ॥४॥ विश्वकर्मोवाच
भारते च महापुण्ये हिमवान् वै महागिरिः। तस्मिन्नेव महापुण्यं दण्डी दारुवनं महत् ॥५॥ देवदारुवनं दिव्यं विविधा वृक्षजातयः । कङ्कोलकलवङ्गाश्च तथा कर्पूरपादपाः ॥६॥ चन्दनागरुसौभाग्यरक्तचन्दनकास्तथा । अगस्त्योदुम्बराशोका बिल्ववृक्षश्च चम्पकाः ॥७॥ पनसाश्च कपित्थाश्च द्राक्षाखर्जूरदाडिमाः। सालतालतमालाश्च तथैव मधुपादपाः ॥८॥ कर्णिकारद्रुमा रम्या नानापुष्पफलान्विताः। . अतीवफलसम्युक्ता लता; रुपाकृतयस्तथा ॥९॥ नागकेसरपुन्नागा विविधा वृक्षजातयः । जातीचम्पकमन्दारा नीलरतोत्पलानि च ॥ १० ॥ पताकाध्वजसम्युक्तं तत्र वै यज्ञमण्डपम् । पनापुष्पसुशोभायं वितान.ककैर्युतम् ॥११॥ श्वेतरक्तहरित्पीतैः कणधूमैस्तथैव च। कपूरकुङ्कुमादित्यपुष्पप्रकरसंकुला ॥ १२ ॥ सधूपामोदबहुला कुङ्कुमद्रवसिञ्चिता। तत्र जाता महापूजा देवेशस्य जगत्प्रभोः ॥ १३ ॥ प्रवेशनिर्गमोपेतं नरनारीसमाकुलम् । महामुरजशब्दैश्च गीतैश्च विविधैस्तथा ॥ १४ ॥ मनोहरं सद्म दिव्यं देवानामपि दुर्लभम् । तत्र हास्यविदग्धाश्च कीडन्ति रुद्रकन्यकाः ॥ १५ ॥