________________
२५७
महाराजप्रासादायतननिवेशो नाम द्वयुत्तरशततमं सूत्रम् ॥ सामन्त कुंज संरोह वपुषौ रजनानि च । ईशान्ये देवकुलानामष्टमांशहीना मता: ॥१५॥ मर्मवेधं परित्यज्य द्वारवेधादिषु क्रमात् । खातं कार्य च स्वस्थाने तेषां च हितकाम्यया ॥ १६ ॥ अलिन्दैर्गर्भकोष्टैश्च सीमास्तम्भगवाक्षकैः । द्वारद्रन्यतलोच्छ्राये प्राग्नीवे सिंहकर्णिकैः ॥ १७ ॥ न कुर्याद् दूषणैस्तुल्यात् समन्ताच्छन्दरूपतः। समरूपं भवेन्यूनमधिकं नैव निन्दति ॥ १८ ॥ राजपीडा भवेन्यूनेऽधिके स्यात्तु धनक्षयः। प्रासादे भूमिपालस्य निवेशा: परिधौ क्रमात् ॥ १९॥ द्रव्ये न्यून न कर्तव्ये मुत्कृष्ट चैव कारयेत् । संस्थानोन्मानन्यूनं न विस्तरे चोच्छ्रयेऽपि च ॥ २० ॥ पूर्वोक्तस्य विभागस्य किञ्चिद्धीनान्तरं शुभम् । अन्योन्यद्विगुणोच्छायैरेकैकस्यान्तरं शुभम् ॥ २१ ॥ सुभोग्यं तत्र कुर्वीत बहुभिर्भवनान्तरैः । कोष्ठागारैर्भाण्डागारै जनोपस्करादिभिः ॥ २२॥ शिलोदूखलशालाभिः पूरयेदन्यदन्तरम् । प्रशस्तान कारयेत् सर्वान् सुरूपान् सुमनोरमान् ॥ २३ ॥ वापीकूपप्रैपाद्याश्च सुराणां च गृहाणि च । नरेन्द्रायतनं त्वेवं वेश्मानि परिकल्पयेत् ॥ २४ ॥ अन्यथा तु महादोषस्तथैव च कुलक्षयः । इति प्रासाददिग्भेदाः सौम्यं सुरगृहादिकम् ॥ २५ ॥ यस्यैतत्तस्य विजयश्चिरं स मुदितो भवेत् । प्रतापी निर्भयस्तावत्सुचिरं प्राप्यते मही ॥२६॥ यस्य यस्य यदा भूमिः फलं तस्यैव चोत्तमम् । तस्मै ऋध्यति देवो यो द्विजदेवमहीं हरे ॥ २७ ॥ अन्येभ्यश्चापि हाणि कन्यादिभ्यस्तथैव च । वितरन्ति महीपाला लभन्ते पुण्यमुत्तमम् ॥ २८ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापर।जितपृच्छायां
महाराजप्रासादायतननिवेशाधिकारो नाम द्वयुत्तरशततम सूत्रम् |
३३ अ.