________________
२६८
प्रासादचतुर्दशजातिलक्षणाकारो नाम षडुत्तरशततमं सूत्रम् ।। भूमिजा भूमिकाक्रमै चाहीनैश्च भूमिकैः । शृङ्गे शृङ्गयुता: कार्या बहुशृङ्गसमाकुलाः ॥ ३० ॥ कणे प्रतिरथे चैव भद्रे च प्रतिभद्रके । मन्दारपुष्पिका घण्टा वराटा: शुभलक्षणाः ॥ ३१॥
इति वराटाः ।। भूमिजच्छन्दकाख्यातास्तलैश्च चतुरचकाः। रथोपरथभद्रा वै विमाना; सर्वकामदाः ॥ ३२॥
इति विमाना॥ नागरच्छन्दकाख्यातास्तिलकैः स्युरनेकधा। मिश्रका मिश्रजाताश्च कर्तब्यास्तिलकाडिताः ॥ ३३ ॥
इति मिश्रकाः॥ तलच्छन्दविभक्ताश्च गर्भभित्तिभ्रमन्तिकाः। भ्रमणीक्रमयोगेन सान्धारा: शिखरैर्युताः ॥ ३४॥
इति सान्धाराः॥ नागरोर्ध्वच्छन्दयुक्ता लताशृङ्गैः समन्विताः । विमाननागरच्छन्दाः प्रोक्तास्तेजस्समुद्भवाः ॥ ३५॥
इति विमाननागराः॥ विमाननागरच्छन्दे उरःशङ्गे तु पुष्पकम् । विमानपुष्पकच्छन्दाः कर्तव्याः सर्वकामदाः ॥ ३६॥
इति विमानपुष्पकाः ॥ आयतच्छन्दकाः कार्या अघण्टो भूमिकाक्रमः । गजपृष्ठाकृतिकुटी बलभी सर्वकामदा ॥ ३७ ॥
इति वलभी॥ दलविभक्तिभद्राठ्या उदकान्तरवर्जिताः। फांसनाकारिणस्तूचे कर्तव्यास्तु नपुंसकाः ॥ ३८ ॥
इति नपुंसकाः॥ छाद्यछाद्योद्भवा ऊर्ध्वं सिंहकर्णैर्विभूषिताः। घण्टा घण्टाकृर्ति कुर्यादित्य सिंहावलोकनाः ॥ ३९ ॥
इति सिंहावलोकनाः ।। शकटोपरि कर्तव्याश्छन्दै नागरोद्भवैः । त्रिचक्रं चैव शकटं कामदास्ते रथाभिधाः॥४०॥
इति रथारुहाः ॥