________________
२४८
अपराजितपृच्छा आयद्वित्रिचतुःपञ्चमूषाणां वहनेषु च । सालङ्कारमिदं प्रोक्तं गृहं तत्पूजितं श्रिया ॥ १५ ॥ षष्ठी च षष्ठके ? नाम आद्या षष्ठयौ महोद्भवे । मूषे द्वितीयाषष्ठ-यौ च महाभूते च नामतः ॥ १६ ॥ आधाद्वितीयाषष्ठ्यश्च श्रियि वै सर्वकामदाः । मूषे तृतीयाषष्ठयौ च क्रूरे क्रूरफलोदये ॥ १७ ॥ आद्याविषयः शुभदे द्वित्रिषष्ठयश्च कामदे । सौख्ये आधाद्वित्रिषष्ठ्यस्तुर्याषष्ठयो करालके ॥ १८ ॥ धान्ये आद्याचतुःषष्ठयो द्विचतुःषष्ठय उत्तमे । प्रिये व्याधाचतुःषष्ठयः क्रोधे तुर्यात्रिषष्ठिकाः ॥ १९ ॥ आधायुक्ताश्च ताः शान्ते मेघे षद्वित्रितुर्यकाः । आद्यायुक्ताः शियि च ताः प्रिये षष्ठी च पञ्चमी ।। २० ।। आद्यायुक्त च ते साम्ये सौम्ये पञ्चद्विषष्ठिकाः । आद्यायुक्ताः समाख्ये ताः अर्थे पञ्चत्रिषष्ठिकाः ॥ २१ ॥ आद्यायुक्ताः शोभने ताः द्वित्रिपञ्चषष्ठयो महे ।। आत्महन्त-द्यायुक्ताश्चतुःपञ्चषष्ठयोऽगाहे ? ॥ २२ ॥ आद्यायुक्ता मोक्षदे द्विचतुःपञ्चषष्ठ्य: सत्ये । आद्यायुक्ता उत्तमे त्रिचतुःपञ्चषष्ठ्योऽयने ॥ २३ ॥ आद्यायुक्तास्तुंगे समे अनाद्याः सद्वितीयकाः। आद्ययुक्ता महदाख्ये चतुःषष्टिगुहा मताः ॥ २४ ॥
इति चतुषष्टिगृहाः ॥ सप्तमी चैव स्वामित्वे सप्तम्याद्ये महाद्भुते । द्विसप्तम्यावद्भुते च त्रिसप्तम्यौ सुसम्भवे ।। २५ ॥ आद्यायुक्ताः सम्भवे द्वित्रिसप्तम्यस्तु कामिके। आद्यायुक्तास्तु कामाख्ये विध्वंसे सप्ततुर्यके ॥ २६ ॥ आधायुक्ता ललिते द्विसप्ततुर्याश्च तिलके। सौभाग्ये साद्या दुर्भाग्ये नितुर्ये सप्तमी तथा ॥ २७ ॥ साद्याः कान्तारके कान्ते द्वित्रिसप्ततुरीयकाः । आद्यायुक्ताः धिये पञ्चसप्तम्यो रौरवे तथा ॥ २८॥ साद्या ऋद्धौ च द्विपञ्चसप्तम्यश्चैव कामिके। साद्या महाकामेऽकामे त्रिपञ्चम्यौ च सप्तमी ॥ २९॥ साद्याः कान्तारके द्वित्रिपञ्चम्यः सप्तमी शिवे ।। आद्यायुक्ताः सर्वलामे सप्तपञ्चतुर्याः शुभे ॥ ३० ॥